यथा᳚ नो मि॒त्रो वरु᳚णो॒ यथा᳚ रु॒द्रश्चिके᳚तति ।
यथा॒ विश्वे᳚ स॒जोष᳚सः ॥
यथा॒ विश्वे᳚ स॒जोष᳚सः ॥
पदपाठः (Word-by-word)
यथा᳚ । नः॒ । मि॒त्रः । वरु᳚णः । यथा᳚ । रु॒द्रः । चिके᳚तति ।
यथा᳚ । विश्वे᳚ । स॒॑जोष᳚सः ॥
यथा᳚ । विश्वे᳚ । स॒॑जोष᳚सः ॥
सायणभाष्यम् (Sayana Commentary)
मित्रो वरुणश्च नोऽस्मान्यथा येन प्रकारेण चिकेतति अनुग्राह्यत्वेन जानाति । रुद्रोपि यथा चिकेतति । सजोषसः समानप्रीतयो विश्वे सर्वे देवा यथा चिकेतंति । तथा भवत्विति शेषः । यद्वा । यथाशब्दोपेतमंत्रद्वयस्य तथा कदा वोचेमेति पूर्वत्रान्वयः ॥ चिकेतति । कित ज्ञाने । लेट्यडागमः । नाभ्यस्तस्येति (पा ७-३-८७) गुणनिषेधो न भवति । बहुलं छंदसीति वक्तव्यमिति वचनात् । सार्वधातुकत्वाच्चाभ्यस्तानामादिरित्याद्युदात्तत्वम् । सजोषसः । जुषी प्रीतिसेवनयोः । समानं जुषंतीति सजोषसः । समानस्य छंदसीति सभावः । असुनो नित्त्वादुत्तरपदस्याद्युदात्तत्वम् । तदेव कृदुत्तरपदप्रकृतिस्वरत्वेन शिष्यते ॥ ३ ॥