श्रवणम्

1.43.8
मा नः᳚ सोमपरि॒बाधो॒ मारा᳚तयो जुहुरन्त ।
आ न᳚ इन्दो॒ वाजे᳚ भज ॥
▶ पदपाठः (Word-by-word)
मा । नः॒ । सो॒म॒॑प॒रि॒बाधः᳚ । मा । अरा᳚तयः । जु॒हु॒र॒न्त॒ ।
आ । नः॒ । इ॒न्दो॒ इति᳚ । वाजे᳚ । भ॒ज॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सोमपरिबाधः सोमस्य परितो बाधका यागरहिता नोऽस्मान् मा जुहुरंत । मा हिंसंतु । तथारातयः शत्रवो मा जुहुरंत । हे इंदो सोम वाजे बलविषयेऽन्नविषये वा नोऽस्माना भज । सर्वतः सेवस्व ॥ सोमपरिभाधः । सोमं परिबाधंते ये ते तादृशाः । क्विप्चेति क्विप् । कृदुत्तरपदप्रकृतिस्वरत्वम् । अरातयः । रा दाने । कृत्यल्युटो बहुलमिति बहुलवचनात्कर्तरि क्तिन् । यद्वा । क्तिच् क्तौ च संज्ञायामितिक्तिच् । नञ्समासेऽव्ययपूर्णपदप्रकृतिस्वरत्वम् । जुहुरंत । हृ व्रसह्यकरणे । व्यत्ययेनात्मनेपदम् । लङि जुहोत्यादित्वात् श्लुः । बहुलं छंदसीति बहुलवचनादिकारस्याप्युत्वम् । द्विर्भावहलादिशेषौ । सर्वे विधयश्छंदसि विकल्प्यंत इति वचनाददभ्यस्तात् । पा ७-१ ४ । इत्यदादेशाभावे सति झोंऽत इत्यंतादेशः । न माङ्योग इत्यडभावः ॥ ८ ॥