श्रवणम्

1.115.6
अ॒द्या दे᳚वा॒ उदि᳚ता॒ सूर्य᳚स्य॒ निरंह᳚सः पिपृ॒ता निर᳚व॒द्यात् ।
तन्नो᳚ मि॒त्रो वरु᳚णो मामहन्ता॒मदि᳚ति॒ः सिन्धु᳚ः पृथि॒वी उ॒त द्यौः ॥
▶ पदपाठः (Word-by-word)
अ॒द्य । दे॒वाः॒ । उत्॑इ᳚ता । सूर्य᳚स्य । निः । अंह᳚सः । पि॒पृ॒त । निः । अ॒व॒द्यात् ।
तत् । नः॒ । मि॒त्रः । वरु᳚णः । म॒म॒ह॒न्ता॒म् । अदि᳚तिः । सिन्धुः᳚ । पृ॒थि॒वी । उ॒त । द्यौः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे देवा द्योतमानाः सूर्यरश्मयः अद्यास्मिन्काले सूर्यस्यादित्य स्योदिता उदितावुदये सतीतस्ततः प्रसरंतो यूयमस्मानंहसः पापान्निष्पिपृत । निष्कृष्य पालयत । यदिदमस्माभिरुक्तं नोऽस्मदीयं तन्मित्रादयः षड्देवता ममहंताम् । पूजयंतु । अनुमन्यंताम् । रक्षंत्विति यावत् । मित्रः प्रमीतेस्त्रायकोऽहरभिमानी देवः । वरणोऽनिष्टानां निवारयिता रात्र्यभिमानी । अदितिरखंडनीयादीना वा देवमाता । सिंधुः स्यंदनशीलोदकाभिमानिनी देवता । पृथिवी भूलोकस्याधिष्ठात्री द्यौर्द्युलोकस्य । उतशब्दः समुच्चये ॥ अद्य । निपातस्य चेति । संहितायां दीर्घत्वम् । उदिता उत्पूर्वादेतेर्भावे क्तिन् । सुपां सुलुगिति डादेशः । तादौ चेति गतेः प्रकृतिस्वरत्वम् । पिपृत । पॄ पालनपूरणयोः । पृ इत्येके । लोट जुहोत्यादित्याच्छपः श्लुः । द्विर्वचनोरदत्वहलादिशेषाः । अर्तिपिपर्त्योश्चेत्यभ्यासस्येत्वम् । सार्वधातुकमपिदिति तशब्दस्य ङित्त्वे सति ऋचि तुनुघेत्यादिना संहितायां दीर्घः ॥ ६ ॥