धियो॒ विश्वा॒ वि रा᳚जति ॥
पदपाठः (Word-by-word)
धियः᳚ । विश्वाः᳚ । वि । रा॒ज॒ति॒ ॥
सायणभाष्यम् (Sayana Commentary)
द्विविधा हि सरस्वती विग्रहवद्देवता नदीरूपा च । तत्र पूर्वाभ्यामृग्भ्यां विग्रहवती प्रतिपादिता । अनया तु नदीरूपा प्रतिपाद्यते । तादृशी सरस्वती केतुना कर्मणा प्रवाहरूपेण महो अर्णः प्रभूतमुदकं प्र चेतयति । प्रकर्षेण ज्ञापयति । किंच । स्वकीयेन देवतारूपेण विश्वा धियः सर्वाण्यनुष्ठातृप्रज्ञानानि विराजति । विशेषेण दीपयति । अनुष्ठानविषया बुद्धीः सर्वदोत्पादयतीत्यर्थः । सरस्वत्या द्विरूपत्वं यास्को दर्शयति । तत्र सरस्वतीत्येतस्य नदीवद्देवतावच्च निगमा भवंति (नि २-२३) इति । एकशतसंख्याकेषूदकनामस्वर्णः क्षोद इति पठितम् । एतामृचं यास्को व्याचष्ट । महदर्णः सरस्वती प्रचेतयति प्रज्ञापयति केतुना कर्मणा प्रज्ञया वेमानि च सर्वाणि प्रज्ञानान्यभिविराजति । नि ११ । २७ । इति ॥ महो अर्णः । महदिति तकारस्य व्यत्ययेन सकारः । तस्य रुत्वोत्वगुणाः । प्रातिपदिकस्वरेणांतोदात्तः । एङः पदांतादिति पा ६-१-१०९ । इति पूर्वरूपे प्राप्ते प्रकृत्यांतःपादमव्यपरे । पा । ६-१-११५ । इति प्रकृतिभावः । अर्तीत्यर्णः । उदके नुट् च (उ ४-१९६) इत्यसुन्प्रत्ययो नुडागमश्च । केतुना । प्रातिपदिकस्वरेणांतोदात्तः । विश्वाः । विश्वशब्दः क्वन्प्रत्ययांत आद्युदात्तः ॥ ६ ॥ १ ॥ १२ ॥