त्वं सु॒तस्य॒ मदे᳚ अरिणा अ॒पो वि वृ॒त्रस्य᳚ स॒मया᳚ पा॒ष्या᳚रुजः ॥
पदपाठः (Word-by-word)
त्वम् । सु॒तस्य᳚ । मदे᳚ । अ॒रि॒णाः॒ । अ॒पः । वि । वृ॒त्रस्य᳚ । स॒मया᳚ । पा॒ष्या᳚ । अ॒रु॒जः॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे इंद्र माहिनः प्रवृद्धस्त्वं दिवो द्युलोकात्पृथिव्याः सदनेषु प्रदेशेष्टोजसा बलेन धरुणं सर्वस्य जगतो धारकं वृष्चिजलं धिषे । दधिषे । स्थापयसि । यस्मात्त्वं सुतस्य सोमस्य पानेन मदे हर्षे सत्यपो जलान्यरिणा मेघान्निरग मयः वृत्रस्यावरकं वृत्रं च समया धृष्टया पाष्या शिलया यद्वा शक्त्या व्यरुजो विशेषेणाभांक्षीः ॥ धिषे । दधातेश्छांदसो वर्तमाने लिट् । द्विर्वचनप्रकरणे छंदसि वेति वक्तव्यम् । कं ६-१-८-१ । इति वचनाद्द्विर्वचनाभावः । क्रादिनियमादिडागम आतो लोप इट चेत्याकारलोपः । माहिनः । महेरिनण् च (उ २-५६) इति मह पूजायामित्यस्मादौणादिक इनण्प्रत्ययः । अत उपधाया इति वृद्धिः । अरिणाः । री गतिरेषणयोः क्रैयादिकः । लङि सिपि प्वादीनां ह्रस्व इति ह्रस्वत्वम् । समया । षमष्टम वैक्लव्ये । समतीति समा । पचाद्यच् । चित इत्यंतोदात्तत्वम् । पाष्या । पिष्लृ संचूर्णन इत्यस्मादौणादिक इन्प्रत्ययः । बहुलवचनादुपधाया आकारः । कृदिकारादक्तिनः (पा ४-१-४५) इति ङीष् । प्रत्ययस्वरेणांतोदात्तः । तृतीयैकवचने यणादेशे सत्युदात्तस्वरितयोर्यण इति स्वरितत्वम् । अरुजः । रुजो भंगे । तौदादिकः । शस्य ङित्त्वाद्गुणाभावः ॥ ६ ॥