दशमं मण्डलम् - सूक्तम् 129

7 ऋचः

ऋषिः: प्रजापतिः परमेष्ठी देवता: भाववृत्तं छन्दः: त्रिष्टुप्

सूक्तम् 10.129 - सम्पूर्णम्

1 / 7
ऋक्: 10.129.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (7)
10.129.1
नास᳚दासी॒न्नो सदा᳚सीत्त॒दानीं॒ नासी॒द्रजो॒ नो व्यो᳚मा प॒रो यत् ।
किमाव᳚रीव॒ः कुह॒ कस्य॒ शर्म॒न्नम्भ॒ः किमा᳚सी॒द्गह᳚नं गभी॒रम् ॥
▶ पदपाठः (Word-by-word)
न । अस᳚त् । आ॒सी॒त् । नो इति᳚ । सत् । आ॒सी॒त् । त॒दानी᳚म् । न । आ॒सी॒त् । रजः᳚ । नो इति᳚ । वि॑ओ᳚म । प॒रः । यत् ।
किम् । आ । अ॒व॒री॒व॒रिति᳚ । कुह᳚ । कस्य᳚ । शर्म᳚न् । अम्भः᳚ । किम् । आ॒सी॒त् । गह᳚नम् । ग॒भी॒रम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

एकादशेऽनुवाके त्रयोविंशतिसङ्ख्यानि सूक्तानि। तत्र नासदासीदिति सप्तर्चं प्रथमं सूक्तं त्रैष्टुभम्। परमेष्ठी नाम प्रजापतिऋषिः। वियदादिभावानां सृष्टिषितिप्रलयादीनामत्र प्रतिपाद्यत्वात्तेषां कर्ता परमात्मा देवता। तथा चानुक्रान्तम्। नासत्सप्त प्रजापतिः परमेष्ठी भाववृत्तं त्विति। गतो विनियोगः॥

तपसस्तन्महिनाजायतैकमित्यादिनाग्रे सृष्टिः प्रतिपादयिष्यते। अधुना ततः प्रागवस्था निरस्तसमस्तप्रपञ्चा या प्रलयावस्था सा निरूप्यते। तदानीं प्रलयदशायामवस्थितम् यदस्य जगतो मूलकारनम् तदसच्छशविषाणवन्निरुपाख्यं नासीत्। न हि तादृशात्कारणादस्य सतो जगत उत्पत्तिः सम्भवति। तथा नो सन्नैव सदात्मवत्सत्त्वेन निर्वाच्यमासित्। यद्यपि सदसदात्मकं प्रत्येकं विलक्षनं भवति तथापि भावाभावयोः सहावस्थानमपि सम्भवति। कुतस्तयोस्तादात्म्यमिति उभयविलक्षणमनिर्वाच्यमेवासीदित्यर्थः। ननु नो सदिति पारमार्थिकसत्त्वस्य निषेधः। तर्ह्यात्मनोऽप्यनिर्वाच्यत्व प्रसङ्गः। अथोच्येत। न। आनीदवातमिति तस्य सत्त्वमग्रे वक्ष्यते परिशेषान्मायाया एवात्र सत्त्वं निषिध्यत इति। एवमपि तदानीमिति विशेशनानर्थक्यं व्यवहारदशायामपि तस्याः पारमार्थिकसत्त्वाभावात्। अथ व्यावहारिकसतां पृथिव्यादीनां भावानां विद्यमानत्वात् कथं नो सदिति निशेधः। तत्राह। नासीद्रज इत्यादि। लोका रजाम्स्युच्यन्ते। नि. ४-१९। इति यास्कः। अत्र च सामान्यापेक्षमेकवचनम्। व्योम्नोवक्ष्यमाणत्वात्तस्याधस्तनाः पातालादयः पृथिव्यन्ता नासन्नित्यर्थः। तथा व्योमान्तरिक्षं तदपि नो नैवासित्। पर इति सकारान्तं परस्तादित्यर्थे वर्तते। परशब्दाच्छान्दसोऽस्तातेरर्थेऽसिप्रत्ययः। परो व्योम्नः परस्तादुपरिदेशे द्युलोकप्रभृतिसत्यलोकान्तं यदस्ति तदपि नासीदित्यर्थः। अनेन चतुर्दशभुवनगर्भं ब्रह्माण्ड स्वरूपेण निषिद्धं भवति। अथ तदावरकत्वेन पुराणेषु प्रसिद्धानि यानि वियदादिभूतानि तेषामवस्थानप्रदेशम् तदावरणनिमित्तं चाक्षेपमुखेन क्रमेण निषेधयति किमावरीवरिति। किमावरणीयं तत्त्वमावरकभूतजातमावरीवः। अत्यन्तमावृणुयात्। आवार्याभावात्तदावरकमपि नासीदित्यर्थः। वाणोतेर्यङ् लुगन्ताच्छान्दसे लङि तिपि रूपमेतत्। यद्वा किमिति प्रथमैव। किं तत्त्वमावरकमावृणुयात्। आवार्याभावादाव्रियमाणवत्तदपि स्वरूपेण नासीदित्यर्थः। आवृण्वत्तत्तत्वं कुह कुत्र देशेऽवस्थायावृणोति। आधारभूतस्तादृशो देशोऽपि नासीदित्यर्थः। किंशब्दात्सप्तम्यर्थे ह प्रत्ययः। कु तिहोः। पा. ७-२-१०४। इति प्रकृतेः क्वादेशः। कस्य शर्मन् कस्य वा भोक्तुर्जीवस्य शर्मणि सुखदुःखसाक्षात्कारलक्षणे वा निमित्तभूते सति तदावरकं तत्त्वमादृणुयात्। जीवानामुपभोगार्था हि सृष्ठिः। तस्याः हि सत्यां ब्रह्माण्डस्य भूतैरावरणं प्रलयदशायां च भोक्तारो जीवा उपाधिविलयात्प्रलीना इति कस्य कश्चिदपि भोक्ता न सम्भवतीत्याररणस्य निमित्ताभावादपि तन्न घटत इत्यर्थः। एतेन भोग्यप्रपञ्चवद्भोक्तृप्रपञ्चोऽपि तदानीं नासिदित्युक्तं भवति। किंशब्दादुत्तरस्य ङसः सावेकाच इति प्राप्तस्योदात्तत्वस्य न गोश्वन्साववर्णेति प्रतिषेधः। सुपां सुलुगिति शर्मणः सप्तम्या लुक्। यद्यपि सावरनस्य ब्रह्माण्डस्य निषेधेन तदन्तर्गतमप्सत्त्वमपि निराकृतं तथाप्यापो वा इदमग्रे सलिलमासीत्। तै. सं. ७-१-५-१। इत्यादिश्रुत्या कश्चिदपां सद्भावमाशंकेत तं प्रत्याचष्टेऽम्भः किमासीदिति। गहनं दुष्प्रवेशं गभीरं दुःखस्थानमत्यगाधं ईदृशमम्भः किमासीत्। तदपि नैवासीदित्यर्थः। श्रुतिस्त्ववां तरप्रलयविषया॥१॥

10.129.2
न मृ॒त्युरा᳚सीद॒मृतं॒ न तर्हि॒ न रात्र्या॒ अह्न᳚ आसीत्प्रके॒तः ।
आनी᳚दवा॒तं स्व॒धया॒ तदेकं॒ तस्मा᳚द्धा॒न्यन्न प॒रः किं च॒नास᳚ ॥
▶ पदपाठः (Word-by-word)
न । मृ॒त्युः । आ॒सी॒त् । अ॒मृत᳚म् । न । तर्हि᳚ । न । रात्र्याः᳚ । अह्नः᳚ । आ॒सी॒त् । प्र॒॑के॒तः ।
आनी᳚त् । अ॒वा॒तम् । स्व॒धया᳚ । तत् । एक᳚म् । तस्मा᳚त् । ह॒ । अ॒न्यत् । न । प॒रः । किम् । च॒न । आ॒स॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ननूक्तस्य प्रतिसंहारस्य संहर्त्रपेक्षत्वात् स एव संहर्ता मृत्यर्विद्यत इत्यत आह। न मृत्युरासीदिति। ननु यदि स नासीत् तर्हि तदभावकृतममृतममरणं प्राणिनामवस्थानं तदानीमपि स्यात् तत्राह। अमृतं न तर्हीति। तर्हि तस्मिन्प्रतिहारसमये। अयं भावः। सर्वेषां प्राणिनां परिपक्वं भोगहेतुभुतं सर्वं कर्म यदोपभुक्तमासीत् तदा भोगाभावान्निष्प्रयोजनमिदं जगदिति परमेश्वरस्य मनसि सञ्जिहीर्षा जायते। तथैव स म्रुत्युः सर्वं जगत्संहरत इति किमनेन म्रुत्युना संहर्त्रा तदभावकृतम् वा कथममरणं स्यादिति। एतदेवाभिप्रेत्य कठैराम्नायते। यस्य ब्रह्म च क्षत्रं चोभे भवत ओदनम्। म्रुत्युर्यस्योपसेचनं क इत्था वेद यत्र सः। क. उ. २-२५। इति नन्वेतस्य सर्वस्याधिकरणभूतः कलो विद्यत इत्यत आह। न रात्र्या इति। न रत्र्या अह्नश्च प्रकेतः प्रज्ञानमासीत्। तद्धेतुभूतयोः सूर्याचन्द्रमसोरभावात्। एतेनाहोरात्र निषेधेन तदात्मको मासर्तुसंवत्सरप्रभृतिकः सर्वः कालः प्रत्याख्यात। कथं तर्हि नो सदासीत्तदानीमिति कालावाची प्रत्ययः। उपचारादिति ब्रूमः। यथेदानीं तननिषेधस्य कालोऽवच्छेदकस्तथा मायापि तदवच्छेदहेतुरित्यवच्छेदकत्वसाम्येनाकालेऽपि कालवाची प्रत्ययः। यदवादिष्म ब्रह्मणः परमार्थसत्त्वमग्रे वक्ष्यत इति तदिदानीं दर्शयत्यानीदिति। तत्सकलवेदान्तप्रसिद्धं ब्रह्मतत्त्वमानीत्। प्राणितवत्। नन्वेवं प्राणनकर्तुर्जीवभावापन्नस्यैव ब्रह्मणः सत्त्वं स्यात् न विवक्षितस्य निरुपाधिकस्य ब्रह्मणः। अप्राणो ह्यमनाः शुद्ध इति तस्य प्राणसम्बन्धा भावात् तत्राहानीदवातमिति। अयमाशयः। आनीदित्यत्र धात्वर्थक्रिया तत्कर्ता तस्य च भुतकालसंबन्ध इति त्रयोऽर्थाः प्रतीयन्ते। तत्र समुदायो न विधीयते यथाग्नेयोऽष्टाकपाल इति येन ब्रह्मणः सत्त्वं न स्यात्। किं तर्ह्येनेन कर्तृत्वमनूद्य भूतकालसत्तालक्षणो गुणो विधीयते दध्ना जुहोतीति वाक्यान्तरविहिताग्निहोत्रानुवादेन तत्र बुणविधानम्। तत्राप्यनेन कर्तृत्वविशिष्टस्य न पूर्वकालसत्ता विधीयते तन्निषेधानुपपत्तिप्रसङ्गात् अतोऽनेन कर्तृत्वेनेदानीन्तनेनोपलक्षितं यन्निरुपाधिकं परं ब्रह्म तस्यैव भुतकालसत्ता विधीयत इति कश्चिद्दोष इति। नन्वीदृशस्य ब्रह्मणो मयया सह सम्बधासम्भवात्साङ्ख्याभिमता स्वतन्त्रा सद्रूपा सत्त्वरजस्तमोगुणात्मिका मूलप्रकृतिरेवाभिमतेति कथं नो सदिति निषेधः। तत्राह स्वधयेति। स्वस्मिन्धीयते ध्रियत आश्रित्य वर्तत इति स्वधा माया। तया तद्ब्रह्मैकमविभागापन्नमासीत्। सहयुक्तेऽप्रधाने। पा. २-३-१९। इति। तृतीया सहशब्दयोगाभावेऽपि सहार्थयोगे भवति वृद्धो यूना। पा. १-२-६५। इति निपातनाल्लिङ्गात्। अत्र प्रकृतिप्रत्ययाभ्यां तस्याः स्वातन्त्र्यं निर्वायते। यद्यप्यसङ्गस्य ब्रह्मणस्तया सह सम्बन्धो न सम्भवति तथापि तस्मिन्नविद्यया तत्स्वरूपमिव सम्बन्धोऽप्यध्यस्यते यथा शुक्तिकायां रजतस्य। एतेन सद्रूपत्वमपि तस्याः प्रत्याख्यातम्। ननु यदि माया ब्रह्मणा सहाविभागापन्ना तर्हि तस्या अनिर्वाच्यत्वाद्ब्रह्मणोऽपि तत्प्रसङ्ग इति कथं तस्य सत्त्वमुक्तमानीदवातमिति। ब्रह्मणो वा सत्त्वात्तस्या अपि सत्त्वप्रसङ्ग इति कथं नो सदासीदिति सत्त्वप्रतिषेधः। मैवम् । अयुक्तिदृष्ट्यैक्यावभासेऽपि युक्त्या विविच्य मायांशस्यानिर्वाच्यत्वं ब्रह्मणः सत्त्वं च प्रतिपादितम्। ननु दृग्दृश्याविति द्वावेव पदार्थावानीदवातं स्वधयेति तौ चेदं गीक्रियेते तत्किमरपरमवशिष्यते यन्नासीद्रज इत्यादिना प्रतिषिध्येत तत्राह तस्मादिति। तस्माद्ध तस्मात्खलु पूर्वोक्तान्मायासहिताद्ब्रह्मणोऽन्यत्किं चन किमपि वस्तु भूत भौतिकात्मकं जगन्नास। न बभूव। छन्दस्युभयथेति लिटः सार्वधातुकत्वादस्तेर्भूभावाभावः। ननु तदानीमन्यस्य सत्त्वनिषेधो न शङ्क्यः। असत्त्वे चाप्रसक्तत्वान्न निशेधोपयोग इत्यत आह पर इति। परः परस्तात्सृष्टेरूर्ध्वं वर्तमानमिदं जगत्तदानीं न बभूवेत्यर्थः। अन्यथोक्तरीत्या क्वचिदपि निषेधो न स्यादिति भावः॥२॥

10.129.3 समानपद
तम᳚ आसी॒त्तम᳚सा गू॒ळ्हमग्रे᳚॑प्रके॒तं स᳚लि॒लं सर्व᳚मा इ॒दम् ।
तु॒च्छ्येना॒भ्वपि᳚हितं॒ यदासी॒त्तप᳚स॒स्तन्म᳚हि॒नाजा᳚य॒तैक᳚म् ॥
▶ पदपाठः (Word-by-word)
तमः᳚ । आ॒सी॒त् । तम᳚सा । गू॒ळ्हम् । अग्रे᳚ । अ॒प्र॒॑के॒तम् । स॒लि॒लम् । सर्व᳚म् । आः॒ । इ॒दम् ।
तु॒च्छ्येन᳚ । आ॒भु । अपि᳚॑हितम् । यत् । आसी᳚त् । तप᳚सः । तत् । म॒हि॒ना । अ॒जा॒य॒त॒ । एक᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

ननूक्तप्रकारेण यदि पूर्वमिदं जगन्नासीत्कथं तर्हि तस्य जन्म। जायमानस्य जनिक्रियायां कर्तृत्वेन कारकत्वात् कारकं च कारणावान्तरविशेष इति कारकस्य सतो नियतपूर्वक्षणवर्तित्वस्यावश्यंभावात्। अथैतद्दोषपरिजिहीर्षया जनिक्रियायाः प्रागपि तद्विद्यत इत्युच्यते। कथं तस्य जन्म। अत आह। तमसा गूळ्हमग्र इति। अग्रे सृष्टेः प्राक् प्रलयदशायां भूतभौतिकं सर्वं जगत्तमसा गूळ्हम् । यथा नैशं तमः सर्वपदार्थजातमावृणोति तद्वत्। आत्मतत्त्वस्यावरकत्वान्माया परसंज्ञं भावरूपाज्ञानमत्र तम इत्युच्यते। तेन तमसा निगूढं संवृतम् कारणभुतेन तेनाच्छादितं भवति। आच्छादकात्तस्मात्तमसो नामरूपाभ्यां यदाविर्भवनं तदेव तस्य जन्मेत्युच्यते। एतेन कारणवस्थायामसदेव कार्यमुत्पद्यत इत्यसद्वादिनोऽसत्कार्यवादिनो ये मन्यन्ते ते प्रत्याख्याताः। ननु कारणे तमसि तज्जगदात्मकं कार्यं विद्यते चेत् कथं नासिद्रज इत्यादिनिषेधः। तत्राह तम आसीदिति। तमो भावरूपाज्ञानं मूलकारणम्। तद्रूपता तदात्मनाम् । यतः सर्वं जगत्प्राक् तम आसीदतो निषिध्यत इत्यर्थः। नन्वावरकत्वादावरकं तमः कर्तृ आवार्यत्वाज्जगत्कर्म। कथं तयोः कर्मकर्त्रोस्तादात्म्यम् । तत्राह। आप्रकेतमिति। अप्रकेतमप्रज्ञायमानम्। अयमर्थः। यद्यपि जगतस्तमसश्च कर्मकर्तृभावो यौक्तिको वित्यते तथापि व्यवहारदशायामिव तस्यां दशायां नामरूपाभ्यां विस्पष्टं न ज्ञायत इति तादात्म्यवर्णनम्। अत एव मनुना स्मर्यते। आसीदिदं तमोभूतमप्रज्ञातमलक्षणम् । अप्रतर्क्यमनिर्देश्यं प्रसुप्तमिव सर्वतः। मनु १-५। इति। कुतो वा न प्रज्ञायते तत्राह। सलिलम्। सल पतौ। औणादिक इलच्। इदं दृश्यमानं सर्वं जगत्सलिलं कारणेन सङ्गतमविभागापन्नमाः। आसीत्। अस्तेर्लङि तिपि बहुलं छन्दसीतीडभावे हल् ङ्याब्भ्य इति तिलोपे तिप्यनस्तेः। पा. ८-२-७३। इति पर्युदासाद्दकाराभावः। यद्वा सलिलमिति लुप्तोपमम्। सलिलमिव। यथा क्षीरेणाविभागापन्नं नीरं दुर्विज्ञानं तथा तमसाविभागापन्नं जगन्नशक्यविज्ञानमित्यर्थः। ननु विविधविचित्ररूपभूयसः प्रपञ्चस्य कथमितितुच्छेन तमसा क्षीरेण नीरस्येवाभिभवः। तथा तमोऽपि क्शीरवद्बलवदित्येवोच्यते। तर्हि दुर्बलस्य जगतः सर्गसमयेऽपि नोद्भवसम्भव इत्यत आह तुच्छ्येनेति। आ समन्ताद्भवतीत्याभु तुच् छ्येन। छान्दसो यकारोपजनः। तुच्छेन तुच्छकल्पनेन सदसद्विलक्षनेन भावरूपज्ञानेनापिहितं छादितमासीत्। दधातेः कर्मणि निष्था। दधातेर्हि। गतिरनन्तर इति गतेः प्रकृतिस्वरत्वम्। एकमेकीभूतं कारणेन तमसाविभागतां प्राप्तमपि तत्कार्यजातं तपसः स्रष्टव्यपर्यालोचनरूपस्य महिना माहात्म्येनाजायत। उत्पन्नम्। तपसः स्रष्टव्यपर्यालोचनरूपत्वं चान्यत्राम्नायते। यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तपः। मुं . उ. १-१-९। इति॥३॥

10.129.4
काम॒स्तदग्रे॒ सम᳚वर्त॒ताधि॒ मन᳚सो॒ रेतः᳚ प्रथ॒मं यदासी᳚त् ।
स॒तो बन्धु॒मस᳚ति॒ निर᳚विन्दन्हृ॒दि प्र॒तीष्या᳚ क॒वयो᳚ मनी॒षा ॥
▶ पदपाठः (Word-by-word)
कामः᳚ । तत् । अग्रे᳚ । सम् । अ॒व॒र्त॒त॒ । अधि᳚ । मन᳚सः । रेतः᳚ । प्र॒थ॒मम् । यत् । आसी᳚त् ।
स॒तः । बन्धु᳚म् । अस᳚ति । निः । अ॒वि॒न्द॒न् । हृ॒दि । प्र॒ति॒॑इष्य᳚ । क॒वयः᳚ । म॒नी॒षा ॥
▶ सायणभाष्यम् (Sayana Commentary)

ननूक्तरीत्या यदीश्वरस्य पर्यालोचनं जगतः पुनरुत्पत्तौ कारणं तदेव किंनिबन्धनमित्यत आह कामस्तदग्र इति। अग्रेऽस्य विकारजातस्य सृष्टेः प्रागवस्थायां परमेश्वरस्य मनसि कामः समवर्तत। सम्यगजायत। सिसृक्षा जातेत्यर्थः। ईश्वरस्य सिसृक्षा वा किंहेतुकेत्यत आह मनस इति। मनसोऽन्तःकरणस्य सम्बन्धि वासनाशेषेण मायायां विलीनेऽन्तःकरने समवेतम्। सामान्यापेक्षमेकवचनम्। सर्वप्राण्यन्तःकरनेषु समवेतमित्यर्थः। एतेनात्मनो गुणाधारत्वं प्रत्याख्यातम्। तादृशं रेतो भाविनः प्रपञ्चस्य बीजभुतं प्रथममतीते कल्पे प्राणिभिः कृतं पुण्यात्मकं कर्म यद्यतः कारणात्सृष्तिसमय आसीत् अभवत्। भूष्णु वर्धिष्ण्वजायत परिपक्वं सत्फलोन्मुखमासीदित्यर्थः। तत्ततो हेतोः फलप्रदस्य सर्वसाक्शिणःकर्माध्यक्षस्य परमेश्वरस्य मनसि सिसृक्षाजायतेत्यर्थः। तस्यां च जातायां स्रष्टव्यं पर्यालोच्य ततः सर्वं जगत्सृजति। तथा चाम्नायते। सोऽकामयत बहुः स्यां प्रजायेउयेति स तपोऽतप्यत स तपस्तप्त्वेदं सर्वमसृजत यदिदं किं च। तै. आ. ८-६। इति श्रुत्यात्मनेत्थमवगमितेऽर्थे विद्वदनुभवमुप्यनुग्राहकत्वेन प्रमाणयति सत इति। सतः सत्त्वेनेदानीमनुभूयमानस्य सर्वस्य जगतो बन्धुं बन्धकं हेतुभूतं कल्पान्तरे प्राण्यनुष्ठितं कर्मसमूहं कवयः क्रान्तदर्शना अतीतानागतवर्तमानाभिज्ञा योगिनो हृदि हृदये निरुद्धया मनीषा मनीषया बुद्ध्या॥ सुपां सुलुगिति तृतीयाया लुक्। प्रतीष्य विचार्य। अन्येशामपीति सांहितिको दीर्घः। असति सद्विलक्षनेऽव्याकृते कारने निरविन्दन्। निष्कृष्यालभन्त। विविच्याजानन्नित्यर्थः॥४॥

10.129.5
ति॒र॒श्चीनो॒ वित᳚तो र॒श्मिरे᳚षाम॒धः स्वि᳚दा॒सी३दु॒परि᳚ स्विदासी३त् ।
रे॒तो॒धा आ᳚सन्महि॒मान᳚ आसन्त्स्व॒धा अ॒वस्ता॒त्प्रय᳚तिः प॒रस्ता᳚त् ॥
▶ पदपाठः (Word-by-word)
ति॒र॒श्चीनः᳚ । वि॑त᳚तः । र॒श्मिः । ए॒षा॒म् । अ॒धः । स्वि᳚त् । आ॒सी॒३त् । उ॒परि᳚ । स्वित् । आ॒सी॒३त् ।
रे॒तः॒॑धाः । आ॒स॒न् । म॒हि॒मानः᳚ । आ॒स॒न् । स्व॒धा । अ॒वस्ता᳚त् । प्र॑य᳚तिः । प॒रस्ता᳚त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

एवमविद्याकामकर्माणि सृष्टेर्हेतुत्वेनोक्तानि। अधुना तेषां स्वकार्यजनने शैघ्र्यं प्रतिपाद्यते। येयं नासदासीदित्यविद्या प्रतिपादिता यश्च कामस्तदग्र इति कामो मनसो रेतः प्रथमं यदासीदिति यत्कर्मैषामविद्याकामकर्मणां वियदादिभूतजातानि सृजतां रश्मी रश्मिसदृशो यथा सूर्यरश्मिरुदयानन्तरं निमेषमात्रेण युगपत्सर्वं जगद्व्याप्नोति तथा शीघ्रं सर्वत्र व्याप्नुवन् यः कार्यवर्गो विततो विस्तृत आसित्। स्विदासीदिति वक्ष्यमाणमत्रापि सम्बध्यते। विचार्यमाणानाम् । पा. ८-२-९७। इति प्लुतः। तत्रोदात्त इत्यनुवृत्तेः स चोदात्तः। स्विदिति वितर्के। स कार्यवर्गः प्रथमतः किं तिरश्चीनस्तिर्यगवस्थितो मध्ये स्थित आसित् किंवाधोऽधस्तादासित्। आहोस्विदुपर्युपरिष्थात्किमासीत्। उपरि स्विदासीदिति च। पा. ८-२-१०२। इत्यनुदात्तः प्लुतः। आत्मन आकाशः सम्भूत आकाशाद्वायुर्वायोरग्निः। तै. आ. ८-१। इत्यादिकया पञ्चमीश्रुत्या तत उद्गातारं ततो होतारमितिवत्क्रमप्रतिपत्तौ सत्यामपि विद्युत्प्रकाशवत्सर्गस्य शीघ्रव्यापनेन तस्य क्रमस्य दुर्लक्षणत्वादेतेषु त्रिषु स्थानेशु प्राथम्यं कुत्रेति विचार्यते। एवं नाम शीघ्रं सर्वतो दिक्षु सर्गो निश्पन्न इत्यर्थः। एतदेव विभजते। सृष्टेषु कार्येषु मध्ये केचिद्भावा रेतोधा रेतसो बीजभूतस्य कर्मणो विधातारः कर्तारो भोक्तारश्च जीवा आसन् अन्ये भावा महिमानः। स्वार्थिक इमनिच्। महान्तो वियदादयो भोग्या आसन्। एवं मायासहितः परमेश्वरः सर्वं जगत्सृष्ट्वा स्वयम् चानुज्प्रविश्य भोक्तृभोग्यादिरूपेण विभागं क्रुतवानित्यर्थः। अयमेवार्थस्तृत्तिरीयके तत्सृष्ट्वा तदेवानुप्राविशत्। तै. आ. ८-६। इत्यारभ्य प्रतिपाद्यते। तत्र च भोक्तृ भोग्ययोर्मध्ये स्वधा। अन्ननामैतत्। भोग्यप्रपञ्चोऽवस्तादवरो निक्रुष्त आसीत्। प्रयतिः प्रयतिता भोक्ता परस्तात्पर उत्क्रुष्त आसित्। भोग्यप्रपञ्चं भोक्तृप्रपञ्चस्य शेशभूतम् क्रुतवानित्यर्थः। विभाषा परावराभ्याम् । पा. ५-३-२९। इति प्रथमार्थेऽस्तातिः। अस्ताति च। पा. ५-३-४०। इत्यवरशब्दस्यावादेशः। अवस्तादिति संहितायामीषा अक्षादित्वात्प्रकृतिभावः॥५॥

10.129.6
को अ॒द्धा वे᳚द॒ क इ॒ह प्र वो᳚च॒त्कुत॒ आजा᳚ता॒ कुत᳚ इ॒यं विसृ᳚ष्टिः ।
अ॒र्वाग्दे॒वा अ॒स्य वि॒सर्ज᳚ने॒नाथा॒ को वे᳚द॒ यत᳚ आब॒भूव᳚ ॥
▶ पदपाठः (Word-by-word)
कः । अ॒द्धा । वे॒द॒ । कः । इ॒ह । प्र । वो॒च॒त् । कुतः᳚ । आ॑जा᳚ता । कुतः᳚ । इ॒यम् । वि॑सृ᳚ष्टिः ।
अ॒र्वाक् । दे॒वाः । अ॒स्य । वि॒॑सर्ज᳚नेन । अथ᳚ । कः । वे॒द॒ । यतः᳚ । आ॒॑ब॒भूव᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

एवम् भोक्तृभोग्यरूपेण सृष्टिः सङ्ग्रहेण प्रतिपादिता। एतावद्वा इदमन्नं चैवान्नादश्च सोम एवान्नमग्निरन्नाद इतिवत्। अथेदानीं सा सृष्टिर्दुविज्ञानेति न विस्तरेनाभिहितेत्याह। को अद्धेति। कः पुरुषोऽद्धा पारमार्थ्येन वेद। जानाति। को वेहास्मिंल्लोके प्र वोचत्। प्रब्रूयात्। इयं दृश्यमाना विसृष्तिर्विविधा भूतभौतिकभोक्तृभोग्यादिरूपेण बहुप्रकारा सृष्टिः कुतः कस्मादुपादानकारणात् कुतः कस्माच्च निमित्तकारनादाजाता। समन्ताज्जाता। प्रादुर्भूता। एतदुभयम् सम्यक्को वेद को वा विस्तरेण वक्तुं शक्नुयादित्यर्थः। ननु देवा अजानन्तः। सर्वज्ञास्ते ज्ञास्यन्ति वक्तुं च शक्नुवन्तीत्यत आह। अर्वागिति। देवाश्चास्य जगतो विसर्जनेन वियदादिभूतोत्पत्त्यनन्तरं विविधं यद्भौतिकं सर्जनं सृष्टिस्तेनार्वागर्वाचीनाः कृताः। भूतसृष्टेः पश्चाज्जाता इत्यर्थः। तथाविधास्ते कथम् स्वोत्पत्तेः पूर्वकालीनां सृष्टिं जानीयुः। अजानन्तो वा कथं प्रब्रूयुः। उक्तं दुर्विज्ञानत्वं निर्गमयति। अथैवं सति देवा अपि न जानन्ति किल। तद्यतिरिक्तः को नाम मनुष्यादिर्वेद तज्जगत्कारनं जानाति यतः कारनात्कृत्स्नं जगदाबभुव अजायत॥६॥

10.129.7
इ॒यं विसृ᳚ष्टि॒र्यत᳚ आब॒भूव॒ यदि᳚ वा द॒धे यदि᳚ वा॒ न ।
यो अ॒स्याध्य᳚क्षः पर॒मे व्यो᳚म॒न्त्सो अ॒ङ्ग वे᳚द॒ यदि᳚ वा॒ न वेद᳚ ॥
▶ पदपाठः (Word-by-word)
इ॒यम् । वि॑सृ᳚ष्टिः । यतः᳚ । आ॒॑ब॒भूव᳚ । यदि᳚ । वा॒ । द॒धे । यदि᳚ । वा॒ । न ।
यः । अ॒स्य॒ । अधि᳚॑अक्षः । प॒र॒मे । वि॑ओ᳚मन् । सः । अ॒ङ्ग । वे॒द॒ । यदि᳚ । वा॒ । न । वेद᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

उक्तप्रकारेण यथेदं जगत्सर्जनम् दुर्विज्ञानं एवं सृष्टम् तज्जगद्दुर्धरमपीत्याह। इयमिति। यत उपादानभूतात्परमात्मन इयं विसृष्टिर्विविधा गिरिनदिसमुद्रादिरूपेण विचित्रा सृष्टिराबभुव आजाता सोऽपि किल यदि वा दधे धारयति यदि वा न धारयति। एवं च को नामान्यो धर्तुं शक्नुयात्। यदि धारयेदीश्वर एव धारयेन्नान्य इत्यर्थः। एतेन कार्यस्य धारयितृत्वप्रतिपादनेन ब्रह्मण उपादानकारणत्वमुक्तं भवति। तथा च पारमार्षं सूत्रम्। प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात्। वेदा. १-४-२३। इति। यद्वा। अनेनार्धर्चेन पुर्वोक्तं सृश्ःटेर्दुज्ञानत्वमेव दृषयति। को वेदेत्यनुवर्तते। इयं विविधा स्रुष्टिर्यत आबभूव आ समन्तादाजायतेति को वेद। न कोऽपि । नास्त्येव जगतो जन्म कदाचिदनीदृशं जगदिति बहवो भ्रान्ता भवन्त्यपि। यतह्। जनिकर्तुः प्रकृतिः। पा. १-४-३०। इत्यपादानसंज्ञायां पञ्चम्यास्तसिल्। यस्मात्परमात्मन उपादान भूतादाबभूव तं परमात्मानं को वेद। न कोऽपि। प्रकृतितः परमाणुभ्यो वा जगज्जन्मेति हि बहवो भ्रान्ताः। तथा स एवोपादानभूतः परमात्मा स्वयमेव निमित्तब्न्हुतोऽपि सन् यदि वा दधे विदध इदं जगत्ससर्ज यदि वा न ससर्ज। असन्दिग्धे सन्दिग्धवचनमेतच्छास्त्राणि चेत्प्रमाणं स्युरिति यथा। स एव विदधे तं को वेद। अजानन्तोऽपि बहवो जडात्प्रधानदकर्तृकमेवेदं जगत्स्वयमजायतेति विपरितम् प्रतिपन्ना विदधतो विधानमजानन्तोऽपि। स एवोपादानभुत इत्यपि को वेदः। न कोऽपि। उपादानादन्यस्तटस्थ एवेश्वरो विदध इति हि बहवः पर्तिपन्नाः। देवा अपि यन्न जानन्ति तदर्वाचीनानामेषां तत्परिज्ञाने कैवकथेत्यर्थः। यद्येवं जगत्सृष्टिरत्यन्तदुरवबोधना तर्हि सा प्रमाणपद्धतिमध्यास्त इत्याशङ्क्य तत्सद्भाव ईश्वरो वेदं प्रमाणयति। यो अस्येति। अस्य भुतभौतिकात्मकस्य जगतो योऽध्यक्ष ईश्वरः परम उत्क्रुष्टे सत्यभुते व्योमन् व्योमन्नाकाश आकाशवन्निर्मले स्वप्रकाशे। यद्वा। अवतेस्तर्पणार्थादन्येभ्योऽपि दृश्यन्त इति मनिन्। नेड्वशि कृतीतीट्प्रतिषेधः। ज्वरत्वरेत्यादिना वकारोपधयोरूट्। सप्तम्या लुक्। न ङिसम्बुद्ध्योरिति नलोप प्रतिषेधः। व्योमनि विशेषेण तृप्ते। निरतिशयानन्दस्वरूप इत्यर्थः। यद्वा। अवतिर्गथर्थः। व्योमनि विशेशेण गन्तव्ये। देशकालवस्तुभिरपरिच्छिन्न इत्यर्थः। अथवा। अवतिर्ज्ञानार्थः। व्योमनि विशेषेण ज्ञातरि विशिष्टज्ञानात्मनि। ईदृशे स्वात्मनि प्रतिष्ठितः। श्रूयते हि सनत्कुमारनारदयोः संवादे स भवः कस्मिन्प्रतिष्ठित इति स्वे महिम्नि। छा. उ. ७-२४-१। इति। ईदृशो यः परमेश्वरः सो अङ्ग। अङ्गेति प्रसिद्धौ। सोऽपि नामवेद जानाति। यदि वा न वेद न जानाति। को नामानो जानीयात्। सर्वज्ञ ईश्वर एव तां सृष्टिं जानीयात् नान्य इत्यर्थः॥७॥