सू॒र्या॒च॒न्द्र॒मसौ᳚ धा॒ता य᳚थापू॒र्वम᳚कल्पयत् ।
दिवं᳚ च पृथि॒वीं चा॒न्तरि᳚क्ष॒मथो॒ स्वः᳚ ॥
दिवं᳚ च पृथि॒वीं चा॒न्तरि᳚क्ष॒मथो॒ स्वः᳚ ॥
पदपाठः (Word-by-word)
सू॒र्या॒च॒न्द्र॒मसौ᳚ । धा॒ता । य॒था॒पू॒र्वम् । अ॒क॒ल्प॒य॒त् ।
दिव᳚म् । च॒ । पृ॒थि॒वीम् । च॒ । अ॒न्तरि᳚क्षम् । अथो॒ इति᳚ । स्वः᳚ ॥
दिव᳚म् । च॒ । पृ॒थि॒वीम् । च॒ । अ॒न्तरि᳚क्षम् । अथो॒ इति᳚ । स्वः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
सूर्याचन्द्रमसौ कालस्य ध्वजभूतौ दिवम् च पृथिवीं चान्तरिक्शम् च इत्थं त्रिभूवनं स्वः। स्वः शब्दः सुखवाची। दिवो विशेषनम्। सुखरूपां दिवम्। तदेतत्सर्वं धाता विधाता यथा पूर्वं पूर्विस्मिन्कालेऽकल्पयत् सृष्टवान् तथैवागामिन्यपि कल्पे कल्पयिश्यतीत्यर्थः॥३॥