श्रवणम्

1.106.2
त आ᳚दित्या॒ आ ग᳚ता स॒र्वता᳚तये भू॒त दे᳚वा वृत्र॒तूर्ये᳚षु श॒म्भुवः᳚ ।
रथं॒ न दु॒र्गाद्व᳚सवः सुदानवो॒ विश्व᳚स्मान्नो॒ अंह᳚सो॒ निष्पि᳚पर्तन ॥
▶ पदपाठः (Word-by-word)
ते । आ॒दि॒त्याः॒ । आ । ग॒त॒ । स॒र्व॑ता᳚तये । भू॒त । दे॒वाः॒ । वृ॒त्र॒॑तूर्ये᳚षु । श॒म्॑भुवः᳚ ।
रथ᳚म् । न । दुः॒॑गात् । व॒स॒वः॒ । सु॒॑दा॒नवः॒ । विश्व᳚स्मात् । नः॒ । अंह᳚सः । निः । पि॒प॒र्त॒न॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे आदित्या अदितेः पुत्रा देवाः । ते यूयं सर्वतातये सर्वैवीरपुरुषै स्तताय विस्तारिताय युद्धाय । युद्धेऽस्माकं साहाय्यं कर्तुमित्यर्थः । आ गत । आगच्छत । अपि च वृत्रतूर्येषु । संग्रामनामैतत् । संग्रामेषु शंभुवः सुखस्य भावयितारो भूत । भवत ॥ गत । गमेर्लोट बहुलं छंदसीति शपो लुक् ॥ २ ॥