श्रवणम्

1.106.7
दे॒वैर्नो᳚ दे॒व्यदि᳚ति॒र्नि पा᳚तु दे॒वस्त्रा॒ता त्रा᳚यता॒मप्र᳚युच्छन् ।
तन्नो᳚ मि॒त्रो वरु᳚णो मामहन्ता॒मदि᳚ति॒ः सिन्धु᳚ः पृथि॒वी उ॒त द्यौः ॥
▶ पदपाठः (Word-by-word)
दे॒वैः । नः॒ । दे॒वी । अदि᳚तिः । नि । पा॒तु॒ । दे॒वः । त्रा॒ता । त्रा॒य॒ता॒म् । अप्र᳚॑युच्छन् ।
तत् । नः॒ । मि॒त्रः । वरु᳚णः । म॒म॒ह॒न्ता॒म् । अदि᳚तिः । सिन्धुः᳚ । पृ॒थि॒वी । उ॒त । द्यौः ॥
▶ सायणभाष्यम् (Sayana Commentary)

देवी दानादिगुणयुक्तादितिरखंडनीयादीना वा देवमाता देवैर्दानादिगुणयुक्तैः स्वकीयैः पुत्रैः सह नोऽस्मान्नि पातु । नितरां रक्षतु । देवो दीप्यमानस्त्राता सर्वेषां रक्षकः सविताप्रयुच्छन् अप्रमाद्यन् अस्मद्रक्षणे जागरूकः सन् त्रायताम् । अस्मान्पालयतु । यदनेन सूक्तेनास्माभिः प्रार्थितं नोऽस्मदीयं तन्मित्रादयः षड्डेवता ममहंताम् । पूजयंतु ॥ त्रायताम् । त्रैङ् पालने । भौवादिकः । अप्रयुच्छन् । युच्छ प्रमादे । अस्माल्लटः शतृ । नञ्समासेऽव्यय पूर्वपदप्रकृतिस्वरत्वं ॥ ७ ॥