नरा॒शंसं᳚ वा॒जिनं᳚ वा॒जय᳚न्नि॒ह क्ष॒यद्वी᳚रं पू॒षणं᳚ सु॒म्नैरी᳚महे ।
रथं॒ न दु॒र्गाद्व᳚सवः सुदानवो॒ विश्व᳚स्मान्नो॒ अंह᳚सो॒ निष्पि᳚पर्तन ॥
रथं॒ न दु॒र्गाद्व᳚सवः सुदानवो॒ विश्व᳚स्मान्नो॒ अंह᳚सो॒ निष्पि᳚पर्तन ॥
पदपाठः (Word-by-word)
नरा॒शंस᳚म् । वा॒जिन᳚म् । वा॒जय᳚न् । इ॒ह । क्ष॒यत्॑वी᳚रम् । पू॒षण᳚म् । सु॒म्नैः । ई॒म॒हे॒ ।
रथ᳚म् । न । दुः॒॑गात् । व॒स॒वः॒ । सु॒॑दा॒नवः॒ । विश्व᳚स्मात् । नः॒ । अंह᳚सः । निः । पि॒प॒र्त॒न॒ ॥
रथ᳚म् । न । दुः॒॑गात् । व॒स॒वः॒ । सु॒॑दा॒नवः॒ । विश्व᳚स्मात् । नः॒ । अंह᳚सः । निः । पि॒प॒र्त॒न॒ ॥
सायणभाष्यम् (Sayana Commentary)
नराशंसं नरैः शंसनीयं वाजिनमन्नवंतमग्निं वाजयन् उपवाजयन् प्रज्वलयन्निहास्मिन्काले स्तौमीति शेषः । तथा क्षयद्वीरमतिबलिनम् । यस्मिन्सर्वे वीराः क्षीयंते । एवंरूपं पूषणं पोषकं देवं सुम्नैः सुखकरैः स्तोत्रैर्हेतुभूतैरीमहे । याचामहे । अभीष्टं प्रार्थयामहे ॥ नराशंसम् । उभे वनस्पत्यादिष्टिति युगपदुभयपदप्रकृतिस्वरत्वम् । नरशब्द ॠदोरबित्यबंत आद्युदात्तः । निपातनाद्दीर्घः । शंसशब्दो घञांत आद्युदात्तः । वाजयन् । वज व्रज गतौ । अस्माण्णिच् । क्षयद्वीरम् । क्षि क्षये । लटः शतृ । शपि प्राप्ते व्यत्ययेन शः । तस्य छंदस्युभयथेत्यार्धधातुकत्वेन ङित्त्वाभावाद्गुणायादेशौ । आदुपदेशाल्लसार्वधातुकानुदात्तत्वे । विकरणस्वरः । अतो गुण इति परपूर्वत्व एकादेश उदात्तेनेत्येकादेश उदात्तः । क्षयंतो वीरायस्मिन् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वं ॥ ४ ॥