श्रवणम्

1.106.3
अव᳚न्तु नः पि॒तरः᳚ सुप्रवाच॒ना उ॒त दे॒वी दे॒वपु᳚त्रे ऋता॒वृधा᳚ ।
रथं॒ न दु॒र्गाद्व᳚सवः सुदानवो॒ विश्व᳚स्मान्नो॒ अंह᳚सो॒ निष्पि᳚पर्तन ॥
▶ पदपाठः (Word-by-word)
अव᳚न्तु । नः॒ । पि॒तरः᳚ । सु॒॑प्र॒वा॒च॒नाः । उ॒त । दे॒वी इति᳚ । दे॒वपु᳚त्रे॒ इति᳚ दे॒व॑पु᳚त्रे । ऋ॒त॒॑वृधा᳚ ।
रथ᳚म् । न । दुः॒॑गात् । व॒स॒वः॒ । सु॒॑दा॒नवः॒ । विश्व᳚स्मात् । नः॒ । अंह᳚सः । निः । पि॒प॒र्त॒न॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

नोऽस्मान्पितरोऽग्निष्टात्तादयोऽवंतु । रक्षंतु । कीदृशाः । सुप्रवाचनाः । सुखेन प्रवक्तुं स्तोतुं शक्याः । उतापि च देवपुत्रे देवाः सर्वे पुत्रस्थानीया ययोस्ते ऋतावृधा ऋतस्य सत्यस्य यज्ञस्य वा वर्धयित्र्यौ देवी देवनादिगुणयुक्ते द्यावापृथिव्यावस्मान्रक्षताम् । अन्यत्समानं ॥ देवी । वा छंदसीति पूर्वसवर्णदीर्घत्वम् । ऋतावृधा । वृधेरंतर्भावितण्यर्थात् क्विप् । सुपां सुलुगिति विभक्तेराकारः ॥ ३ ॥