बृह᳚स्पते॒ सद॒मिन्न᳚ः सु॒गं कृ᳚धि॒ शं योर्यत्ते॒ मनु᳚र्हितं॒ तदी᳚महे ।
रथं॒ न दु॒र्गाद्व᳚सवः सुदानवो॒ विश्व᳚स्मान्नो॒ अंह᳚सो॒ निष्पि᳚पर्तन ॥
रथं॒ न दु॒र्गाद्व᳚सवः सुदानवो॒ विश्व᳚स्मान्नो॒ अंह᳚सो॒ निष्पि᳚पर्तन ॥
पदपाठः (Word-by-word)
बृह᳚स्पते । सद᳚म् । इत् । नः॒ । सु॒॑गम् । कृ॒धि॒ । शम् । योः । यत् । ते॒ । मनुः᳚॑हितम् । तत् । ई॒म॒हे॒ ।
रथ᳚म् । न । दुः॒॑गात् । व॒स॒वः॒ । सु॒॑दा॒नवः॒ । विश्व᳚स्मात् । नः॒ । अंह᳚सः । निः । पि॒प॒र्त॒न॒ ॥
रथ᳚म् । न । दुः॒॑गात् । व॒स॒वः॒ । सु॒॑दा॒नवः॒ । विश्व᳚स्मात् । नः॒ । अंह᳚सः । निः । पि॒प॒र्त॒न॒ ॥
सायणभाष्यम् (Sayana Commentary)
बृहस्पते सदमित् सदैवा नोऽस्माकं सुगम् । सुखनामैतत् । सुखं कृधि । कुरु । अपि च ते तव स्वभूतं शं शमनीयानां रोगाणामुपशमनं योः पृथक्कर्तव्यानां भयानां यावनं पृथक्करणं मनुर्हितं मनुना ब्रह्मणा हितं त्वय्यवस्थापितम् । यद्वा । मनुष्याणामनुकूलम् । एवंविधं शमनं यावनं च यदस्ति तदीमहे । याचामहे ॥ सुगम् । सुष्ठु गम्यतेऽस्मिन्निति सुगम् । सुदुरोरधिकरण इति गमेर्डः । शं योरित्येतत्पदद्वयं यास्केनैवं व्याख्यातम् । शमनं च रोगाणां यावनं च भयानाम् (नि ४-२१) इति । मनुर्हितम् । मनेरौणादिक उसिन्प्रत्ययः । तृतीया कर्मणीति पूर्वपदप्रकृतिस्वरत्वंः ॥ ५ ॥ ।