इन्द्रं॒ कुत्सो᳚ वृत्र॒हणं॒ शची॒पतिं᳚ का॒टे निबा᳚ळ्ह॒ ऋषि᳚रह्वदू॒तये᳚ ।
रथं॒ न दु॒र्गाद्व᳚सवः सुदानवो॒ विश्व᳚स्मान्नो॒ अंह᳚सो॒ निष्पि᳚पर्तन ॥
रथं॒ न दु॒र्गाद्व᳚सवः सुदानवो॒ विश्व᳚स्मान्नो॒ अंह᳚सो॒ निष्पि᳚पर्तन ॥
पदपाठः (Word-by-word)
इन्द्र᳚म् । कुत्सः᳚ । वृ॒त्र॒॑हन᳚म् । शची॒३॒᳚॑पति᳚म् । का॒टे । नि॑बा᳚ळ्हः । ऋषिः᳚ । अ॒ह्व॒त् । ऊ॒तये᳚ ।
रथ᳚म् । न । दुः॒॑गात् । व॒स॒वः॒ । सु॒॑दा॒नवः॒ । विश्व᳚स्मात् । नः॒ । अंह᳚सः । निः । पि॒प॒र्त॒न॒ ॥
रथ᳚म् । न । दुः॒॑गात् । व॒स॒वः॒ । सु॒॑दा॒नवः॒ । विश्व᳚स्मात् । नः॒ । अंह᳚सः । निः । पि॒प॒र्त॒न॒ ॥
सायणभाष्यम् (Sayana Commentary)
काट इति कूपनाम । तस्मिन्नि बाळ्हो निपातितः कुत्स ऋषिरूतये रक्षणायेंद्रमह्वत् । आह्वयति स्म । कीदृशम् । वृत्रहणं वृत्राणां शत्रूणां हंतारम् । शचीपतिम् । शचीति कर्मनाम । सर्वेषां कर्मणां पालयितारम् । यद्वा । शच्या देव्या भर्तारं ॥ शचीपतिम् । वनस्पत्यादिषु पाठादुभयपदप्रकृतिस्वरत्वम् । शचीशब्दः शार्ङ्गरवादिङीनंत आद्युदात्तः । निबाळ्हः । बाहृ प्रयत्ने । नीत्युपसर्गवशात्पतने वर्तते । निष्ठाया मनित्यमागमशासनमितीडभावः । ढत्वधत्वादीनि । यद्वा । क्षुब्धस्वांतेत्यादौ (पा ७-२-१८) भृशार्थ इडभावो निपात्यते । आत्र च वाढशब्दो भृशत्वोपेते पतने सामार्थ्याद्वर्तते । गतिरनंतर इति गतेः प्रकृतिस्वरत्वम् । आह्वन् । लिपिसिच्विह्वश्व (पा ३-१-५३) इति लुङि च्लेरङादेशः । अतो लोप इट चेत्याकारलोपः ॥ ६ ॥