इन्द्र᳚श्च॒ यद्यु᳚यु॒धाते॒ अहि᳚श्चो॒ताप॒रीभ्यो᳚ म॒घवा॒ वि जि᳚ग्ये ॥
पदपाठः (Word-by-word)
इन्द्रः᳚ । च॒ । यत् । यु॒यु॒धाते॒ इति᳚ । अहिः᳚ । च॒ । उ॒त । अ॒प॒रीभ्यः᳚ । म॒घ॑वा᳚ । वि । जि॒ग्ये॒ ॥
सायणभाष्यम् (Sayana Commentary)
इंद्रं निषेद्धुं वृत्रो यान्विद्युदादीन्मायया निर्मितवान् ते सर्वेऽप्येनं निषेद्धुमशक्ताः । सोऽयमर्थोऽनेन मंत्रेणोच्यते । अस्मै इंद्रार्थं निर्मिता विद्युन्न सिषेध । इंद्र न प्राप्नोत् । तथा तन्य तुर्गर्जनं यां मिहं सेचनं यां वृष्टिमकिरत् वृत्रो विक्षिप्तवान् सापि वृष्टिर्न सिषेध । ह्रादुनिं चाशनिमपि यां वृत्रः प्रयुक्तवान् सापि न सिषेध । इंद्रश्चाहिश्चेंद्रवृत्रावुभावपि यद्यदा युयुधाते युद्धं कृतवंतौ । तदानीं विद्युदादयो न प्राप्ता इति पूर्वत्रान्वयः । उतापि च मघवा धनवानिंद्रोऽपरीभ्योऽपराभ्योऽन्यासामपि वृत्रनिर्मितानां मायानां सकाशाद्वि जिग्ये । विशेषेण जितवान् ॥ सिषेध । षिधु गत्याम् । मिहम् । मिह सेचने । मेहति सिंचतीति मिट् वृष्टिः । क्विप्चेति क्विप् । अकिरत् । कृ विक्षेपे । तुदादिभ्यः शः । ऋत इद्धातोरितीत्वम् । अडागम उदात्तः । यद्वृत्तयोगादनिघातः । युयुधाते । युधि संप्रहारे । लिट प्रत्ययस्वरः । जिग्ये । सन् लिटोर्जेः (पा ७-३-५७) इत्यभ्यासादुत्तरस्य जकारस्य कुत्वं ॥ १३ ॥