सेदु॒ राजा᳚ क्षयति चर्षणी॒नाम॒रान्न ने॒मिः परि॒ ता ब᳚भूव ॥
पदपाठः (Word-by-word)
सः । इत् । ऊं॒ इति᳚ । राजा᳚ । क्ष॒य॒ति॒ । च॒र्ष॒णी॒नाम् । अ॒रान् । न । ने॒मिः । परि᳚ । ता । ब॒भू॒व॒ ॥
सायणभाष्यम् (Sayana Commentary)
वज्रबाहुरिंद्रः शत्रौ हते सति निःसपत्नो भूत्वा यातो गच्छतो जंगमस्यामसितस्यैकत्रैव स्थितस्य स्थावरस्य शमस्य शांतस्य शृंगराहित्येन प्रहरणादावप्रवृत्तस्याश्वगर्दभादेः शृंगिणः शृंगोपेतस्योग्रस्य महिषबलीवर्दादेश्च राजाभूत् । सेदु स एवेंद्रश्चर्षणीनां मनुष्याणां राजा भूत्वा क्षयति । निवसति । ता तानि पूर्वोक्तानि जंगमादीनि सर्वाणि परि बभूव । व्याप्तवान् । तत्र दृष्टांतः । अरान्न नेमिः । यथा रथचक्रस्य परितो वर्तमाना नेमिररान्नाभौ कीलितान्काष्ठविशेषान्व्याप्नोति तद्वत् ॥ यातः । या प्रापणे । याति गच्छतीति यात् । लटः शतृ । सावेकाच इति विभक्तेरुदात्तत्वम् । सः । सोऽचि लोपे चेदिति संहितायां सोर्लोपः । ता । शेश्छंदसि बहुलमिति शेर्लोपः । बभूव । भवतेर्लिटो णलि भवतेरः (पा ७-४-७३) इत्यभ्यासस्यात्वम् । कृताकृतप्रसंगितया वुगागमस्य नित्यत्वाद्वृद्धेः पूर्वं वुगागमः । यद्वा । इंधिभवतिभ्यां च (पा १-२-६) इति लिट कित्त्वाद्वृद्ध्यभावः । न चासिद्धवदत्रा भादिति तस्यासिद्धत्वादुवङादेशः शंकनीयः । वुग्युटावुङ्यणोः सिद्धौ भवतः । पा ६-४-२२-१४ । इति तस्य सिद्धत्वात् । तिङ्ङतिङ इति निघातः ॥ ३८ ॥ १५ ॥