अह॒न्नहिं॒ पर्व᳚ते शिश्रिया॒णं त्वष्टा᳚स्मै॒ वज्रं᳚ स्व॒र्यं᳚ ततक्ष ।
वा॒श्रा इ᳚व धे॒नव॒ः स्यन्द᳚माना॒ अञ्ज᳚ः समु॒द्रमव᳚ जग्मु॒रापः᳚ ॥
वा॒श्रा इ᳚व धे॒नव॒ः स्यन्द᳚माना॒ अञ्ज᳚ः समु॒द्रमव᳚ जग्मु॒रापः᳚ ॥
पदपाठः (Word-by-word)
अह᳚न् । अहि᳚म् । पर्व᳚ते । शि॒श्रि॒या॒णम् । त्वष्टा᳚ । अ॒स्मै॒ । वज्र᳚म् । स्व॒र्य᳚म् । त॒त॒क्ष॒ ।
वा॒श्राः॑इ᳚व । धे॒नवः᳚ । स्यन्द᳚मानाः । अञ्जः᳚ । स॒मु॒द्रम् । अव᳚ । ज॒ग्मुः॒ । आपः᳚ ॥
वा॒श्राः॑इ᳚व । धे॒नवः᳚ । स्यन्द᳚मानाः । अञ्जः᳚ । स॒मु॒द्रम् । अव᳚ । ज॒ग्मुः॒ । आपः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
पर्वते शिश्रियाणमाश्रितमहिं मेघमहन् । हतवान् । अस्मा इंद्राय स्वर्यं सुष्ठु प्रेरणीयं यद्वा शब्दनीयं स्तुत्यं त्वष्टा विश्वकर्मा वज्रं ततक्ष । तनूकृतवान् । तेन वज्रेण मेघे भिन्ने सति स्यंदमानाः प्रस्रवणयुक्ता आपः समुद्रमंजः सम्यगवजग्मुः प्राप्ताः । तत्र दृष्टांतः । वाश्रा वत्सान्प्रति हंभारवोपेता धेनव इव । यथा धेनवः सहसा वत्सगृहे गच्छंति तद्वत् ॥ शिश्रियाणाम् । श्रिञ् सेवायाम् । लिटः कानच् । द्विर्भावहलादिशेषेयजादेशाः । चित इत्यंतोदात्तत्वम् । स्वर्यम् । ऋ गतौ । अस्मात्सुपूर्वादृहलोर्ण्यदिति ण्यत् । संज्ञा पूर्वको विधिरनित्य इति वृद्ध्यभावः । यद्वा । स्वृ शब्दोपतापयोरित्यस्मात् ण्यति पूर्ववद्वृध्यभावः । तित्स्वरितमिति स्वरितत्वम् । वाश्यंत इति वाश्राः । वाशृ शब्दे । स्फायितंचीत्यादिना रक् । जग्मुः । उसि गमहनेत्युपधालोपः ॥ २ ॥