श्रवणम्

1.32.4
यदि॒न्द्राह᳚न्प्रथम॒जामही᳚ना॒मान्मा॒यिना॒ममि᳚ना॒ः प्रोत मा॒याः ।
आत्सूर्यं᳚ ज॒नय॒न्द्यामु॒षासं᳚ ता॒दीत्ना॒ शत्रुं॒ न किला᳚ विवित्से ॥
▶ पदपाठः (Word-by-word)
यत् । इ॒न्द्र॒ । अह᳚न् । प्र॒थ॒म॒॑जाम् । अही᳚नाम् । आत् । मा॒यिना᳚म् । अमि᳚नाः । प्र । उ॒त । मा॒याः ।
आत् । सूर्य᳚म् । ज॒नय᳚न् । द्याम् । उ॒षस᳚म् । ता॒दीत्ना᳚ । शत्रु᳚म् । न । किल᳚ । वि॒वि॒त्से॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

उतापि च हे इंद्र यद्यदाहीनां मेघानां मध्ये प्रथमजां प्रथमोत्पन्नं मेघमहन् हतवानसि आत् तदनंतरं मायिनां मायोपेतानामसुराणां संबंधिनीर्मायाः प्रामिनाः । प्रकर्षेण नाशितवानसि । अनंतरं सर्यमुषसमुषःकालं द्यामाकाशं च जनयन् उत्पादयन्नावरकमेघनिवारणेन प्रकाशयन् वर्तसे । तादीत्ना तदानीमावरकांधकाराभावाच्छत्रुं घातकं वैरिणं न विवित्से किल । त्वं न लब्दवान्खलु ॥ अहन् । हंतेर्लङि हल्ङ्याब्भ्य इति सिलोपः । अडागम उदात्तः । यद्वृत्तयोगादनिघातः । मायिनाम् । मायाशब्दस्य व्रीह्यादिषु पाठाद्व्रीह्यादिभ्यश्च पा ५-२-११६ । इति मत्वर्थीय इनिः । अमिनाः । मीञ् हिंसायाम् । क्रैयादिकः । मीनातेर्निगमे (पा ७-३-८१) इति ह्रस्वत्वम् । तादीत्वा । तदानीमित्यस्य पृषोदरादित्वाद्वर्णविपर्ययः । किल । निपातस्येति दीर्घत्वम् । विवित्से । विद्लृलाभे । क्रादिनियमात्प्राप्त इट् व्यत्ययेन न भवति ॥ ४ ॥