वृ॒षा॒यमा᳚णो॑वृणीत॒ सोमं॒ त्रिक᳚द्रुकेष्वपिबत्सु॒तस्य᳚ ।
आ साय᳚कं म॒घवा᳚दत्त॒ वज्र॒मह᳚न्नेनं प्रथम॒जामही᳚नाम् ॥
आ साय᳚कं म॒घवा᳚दत्त॒ वज्र॒मह᳚न्नेनं प्रथम॒जामही᳚नाम् ॥
पदपाठः (Word-by-word)
वृ॒ष॒॑यमा᳚णः । अ॒वृ॒णी॒त॒ । सोम᳚म् । त्रि॑क᳚द्रुकेषु । अ॒पि॒ब॒त् । सु॒तस्य᳚ ।
आ । साय᳚कम् । म॒घवा᳚ । अ॒द॒त्त॒ । वज्र᳚म् । अह᳚न् । ए॒न॒म् । प्र॒थ॒म॒॑जाम् । अही᳚नाम् ॥
आ । साय᳚कम् । म॒घवा᳚ । अ॒द॒त्त॒ । वज्र᳚म् । अह᳚न् । ए॒न॒म् । प्र॒थ॒म॒॑जाम् । अही᳚नाम् ॥
सायणभाष्यम् (Sayana Commentary)
वृषायमाणो वृष इवाचरन्निंद्रः सोममवृणीत । वृतवान् । त्रिकद्रुकेषु । ज्योतिर्गौरयुरित्येतन्नामकास्त्रयो यागास्त्रिकर्दुका उच्यंते । तेषु सुतस्याभिषुतस्य सोमस्यांशमपिबत् । पीतवान् । मघवा धनवानिंद्रः सायकं बंधकं वज्रमादत्त । स्वीकृतवान् । तेन च वज्रेणाहीनां मेघनां मध्ये प्रथमजां प्रथमोत्पन्नं मेघमहन् । हतवान् ॥ वृषायमाणः । वृष इवाचरन् । कर्तुः क्यङ् सलोपश्च (पा ३-१-११) इति क्यङ् । अकृत्सार्वधातुकयोरिति दीर्घः । अदुपदेशाद्धातोरंतोदात्तत्वे क्यङंताद्दातोरंतोदात्तत्वम् । सायकम् । षिञ् बंधन । सिनोतीति सायकः । ण्वुल् । लित्स्वरेणाद्युदात्तत्वम् । प्रथमजां प्रथमं जायत इति प्रथमजाः । जनसनखनक्रमगमो विट् । विड्वनोरित्यात्वं ॥