श्रवणम्

1.32.9
नी॒चाव᳚या अभवद्वृ॒त्रपु॒त्रेन्द्रो᳚ अस्या॒ अव॒ वध᳚र्जभार ।
उत्त᳚रा॒ सूरध᳚रः पु॒त्र आ᳚सी॒द्दानु᳚ः शये स॒हव᳚त्सा॒ न धे॒नुः ॥
▶ पदपाठः (Word-by-word)
नी॒चा॑व᳚याः । अ॒भ॒व॒त् । वृ॒त्र॑पु᳚त्रा । इन्द्रः᳚ । अ॒स्याः॒ । अव᳚ । वधः᳚ । ज॒भा॒र॒ ।
उत्॑त᳚रा । सूः । अध᳚रः । पु॒त्रः । आ॒सी॒त् । दानुः᳚ । श॒ये॒ । स॒ह॑व᳚त्सा । न । धे॒नुः ॥
▶ सायणभाष्यम् (Sayana Commentary)

वृत्रपुत्रा वृत्रः पुत्रो यस्या मातुः सेयं माता वृत्रपुत्रा नीचावया न्यग्भावं प्राप्ता हताभवत् । पुत्रं प्रहाराद्रक्षितुं पुत्रदेहस्योपरि तिरश्ची पतितवतीत्यर्थः । तदानीमयमिंद्रोस्या मातुरवाधोभागे वृत्रस्योपरि वधो हननसाधनमायुधं जभार । प्रहृतवान् । तदानीं सूर्मातोत्तरोपरिस्थितासीत् । पुत्रस्त्वधोभागस्थित आसीत् । सा च दानुर्दानवी वृत्रमाता शये । मृता शयनं कृतवती । तत्र दृष्टांतः । धेनुर्लोकप्रसिद्धा गौः सहवत्सा न । यथा वत्ससहिता शयनं करोति तद्वत् ॥ नीचावयाः । वेति खादतीति वयो बाहुः । औणादि कोऽसिप्रत्ययः । न्यंचौ वयसौ यस्याः सा नीचावयाः । न्यच् शब्दादुत्तरस्या विभक्तेः सुपां सुपो भवंतीति तृतीयैकवचनादेशः । अच इत्यकारलोपे चाविति दीर्घत्वम् । अंचेश्छंदस्य सर्वनामस्थानम् (पा ६-१-१७०) इति तस्योदात्तत्वम् । समासे लुगभावश्छांदसः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । यद्वा । नीचौ । निकृष्टौ वयसौ यस्याः सा । पूर्वपदस्य दीर्घश्छांदसः । जभार । हृग्रहोर्भ इति भत्वम् । सूः । षूङ् प्राणिगर्भविमोचने । सूते गर्भं मिमुंचतीति सूर्माता । क्विप्चेति क्विप् । दानुः । दो अवखंडने । दाभाभ्यां नुः (उ ३-३२) शये लट लोपस्त आत्मनेपदेषु (पा ७-१-४१) इति तलोपः । शीङः सार्वधातुक इति गुणेऽयादेशः ॥ ९ ॥