अधा᳚ चि॒न्नु यद्दिधि᳚षामहे वाम॒भि प्रि॒यं रेक्ण॒ः पत्य᳚मानाः ।
द॒द्वा{4} वा॒ यत्पुष्य᳚ति॒ रेक्ण॒ः सम्वा᳚र॒न्नकि᳚रस्य म॒घानि᳚ ॥
द॒द्वा{4} वा॒ यत्पुष्य᳚ति॒ रेक्ण॒ः सम्वा᳚र॒न्नकि᳚रस्य म॒घानि᳚ ॥
पदपाठः (Word-by-word)
अध᳚ । चि॒त् । नु । यत् । दिधि᳚षामहे । वा॒म् । अ॒भि । प्रि॒यम् । रेक्णः᳚ । पत्य᳚मानाः ।
द॒द्वान् । वा॒ । यत् । पुष्य᳚ति । रेक्णः᳚ । सम् । ऊं॒ इति᳚ । आ॒र॒न् । नकिः᳚ । अ॒स्य॒ । म॒घानि᳚ ॥
द॒द्वान् । वा॒ । यत् । पुष्य᳚ति । रेक्णः᳚ । सम् । ऊं॒ इति᳚ । आ॒र॒न् । नकिः᳚ । अ॒स्य॒ । म॒घानि᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे मित्रावरुणौ वां युवाभ्यां युवयोरर्थं यद्यदा दिधिषामहे हवींषि धारयामः। यद्वा। धिष शब्दे। वां युवां स्तुमहे। अधा चिदनन्तरमेव नु क्षिप्रं प्रियमभीष्टम् रेक्णः। धननामैतत्। धनमभि पत्यमाना अभिपतन्तोऽभिप्राप्नुवन्तो भवामः। दद्वान् ददिवान्। ददातेर्लिटः क्वसुः। छन्दस्युभयथेति वसोः सार्व धातुकत्वाच्छ्नाभ्यस्तयोरात इत्यकारलोपः। अत एवेडभावाश्च। संहितायां नकारस्य दीर्घादटि समानपाद इति रुत्वम्। अतोऽटि नित्यमिति सानुनासिक अकारः। वाशब्दश्चार्थे। हवींषि दत्तवांश्च यद्यो यजमानो रेक्णो धनं पुश्यति वर्थयति अस्य दत्तवतो यजमानस्य मघानि धनानि नकिः समारन्। नैवापगच्छन्ति। किन्तु तमेव सर्वदा भजन्ते। समित्येदपेत्येतस्यार्थे। उ इति पूरणः। अर्तेश्छान्दसे लुङि सर्तिशास्त्यर्तिभ्यश्चेति च्लेरजादेशः। ऋदृशोऽङि गुणः। पा. ७-४-१६॥३॥