श्रवणम्

10.132.5
अ॒स्मिन्त्स्वे॒३॒᳚तच्छक᳚पूत॒ एनो᳚ हि॒ते मि॒त्रे निग᳚तान्हन्ति वी॒रान् ।
अ॒वोर्वा॒ यद्धात्त॒नूष्ववः᳚ प्रि॒यासु᳚ य॒ज्ञिया॒स्वर्वा᳚ ॥
▶ पदपाठः (Word-by-word)
अ॒स्मिन् । सु । ए॒तत् । शक᳚॑पूते । एनः᳚ । हि॒ते । मि॒त्रे । नि॑ग᳚तान् । ह॒न्ति॒ । वी॒रान् ।
अ॒वोः । वा॒ । यत् । धात् । त॒नूषु᳚ । अवः᳚ । प्रि॒यासु᳚ । य॒ज्ञिया᳚सु । अर्वा᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

योयं शकपूताख्य ऋशिरस्मिञ्शकपूते स्थितमेतदेनः पापं शत्रूणां पापकरमायुधं वा मित्रे देवे हिते हिताचरणपरेऽनुकूले सति निगतान्निगन्तव्याह्नननार्थं नियमेन प्राप्तव्यान्वीराञ्शत्रोः पुत्रादीन् सु सुष्थु हन्ति। हिनस्ति। अस्मिन्नृषौ समवेतं यत्पापं तन्मित्रस्य प्रसादेन तदीयेषु शत्रुषु स्वकार्यं दुःखं जनयतीत्यर्थः। निगतान्। निपूर्दाद्गमेः कर्मणि निष्था। गतिरनन्तर इति गतेः प्रकृतिस्वरत्वम्। कदेत्यत आह। अवोर्हविर्भिस्तर्पयितुः। अवतेरौणादिक उप्रत्ययः। तस्य यजमानस्य यज्ञियासु यज्ञार्हासु क्रियासु तनूशु शरीरेष्वार्भिगन्ता मित्रो वरुणो वा यद्यदावो रक्शनं धात् दधाति निदधाति स्थापयति। यद्वा। यदार्वाभिगन्ता स ऋषिरवितू रक्शितुर्मित्रस्य वरुणस्य वा यागार्हासु प्रियासु तनूषु शरीरेष्ववो हविर्लक्षणमन्नं धात् धारयति। तदानीं मित्रे वरुणे चानुकूले सति तदेनो वीरान्हन्तीत्यर्थः॥५॥