श्रवणम्

1.143.2
स जाय᳚मानः पर॒मे व्यो᳚मन्या॒विर॒ग्निर᳚भवन्मात॒रिश्व᳚ने ।
अ॒स्य क्रत्वा᳚ समिधा॒नस्य᳚ म॒ज्मना॒ प्र द्यावा᳚ शो॒चिः पृ᳚थि॒वी अ᳚रोचयत् ॥
▶ पदपाठः (Word-by-word)
सः । जाय᳚मानः । प॒र॒मे । वि॑ओ᳚मनि । आ॒विः । अ॒ग्निः । अ॒भ॒व॒त् । मा॒त॒रिश्व᳚ने ।
अ॒स्य । क्रत्वा᳚ । स॒म्॑इ॒धा॒नस्य᳚ । म॒ज्मना᳚ । प्र । द्यावा᳚ । शो॒चिः । पृ॒थि॒वी इति᳚ । अ॒रो॒च॒य॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

सपूर्वोक्तोऽग्निः जायमानः अरणीभ्यामुत्पद्यमानः काष्ठेषुवाप्रादुर्भूतःसन् तदानीमेव परमेउत्कृष्टे- व्योमनि विविधरक्षणवति वेदिदेशेमातरिश्वनेअंतरिक्षसंचारिणेवायवेप्रथममाविरभवत् प्रत्यक्षोभूत् त्वमग्नेप्रथमोमातरिश्वनआविर्भवेत्यादिश्रुत्यंतरप्रसिद्धेः । वायुसंयोगात्प्रज्वलितइत्यर्थः अथवा मात- रिफलस्यनिर्मातरियज्ञेश्वसितिचेष्टतइतिमातरिश्वा यजमानः तदर्थं किंच समिधानस्यइंधनैःसम्यग्व- र्धमानस्यास्याग्नेः मज्मनाबलनामैतत् बलवता क्रत्वाक्रतुनाकर्मणाज्वालनादिव्यापारेण शोचिः द्या- वापृथिवी द्यांचपृथिवींच प्रारोचयत् प्रकर्षेणादीपयत् मध्येशोचिःशब्दश्छान्दसः मज्मनाक्रत्वासमि- धानस्येतिवायोज्यं प्रबलेनसमिन्धनादिव्यापारेणसमिद्भ्यमानस्येत्यर्थः ॥ २ ॥