घृ॒तप्र᳚तीकं व ऋ॒तस्य᳚ धू॒र्षद᳚म॒ग्निं मि॒त्रं न स᳚मिधा॒न ऋ᳚ञ्जते ।
इन्धा᳚नो अ॒क्रो वि॒दथे᳚षु॒ दीद्य᳚च्छु॒क्रव᳚र्णा॒मुदु᳚ नो यंसते॒ धिय᳚म् ॥
इन्धा᳚नो अ॒क्रो वि॒दथे᳚षु॒ दीद्य᳚च्छु॒क्रव᳚र्णा॒मुदु᳚ नो यंसते॒ धिय᳚म् ॥
पदपाठः (Word-by-word)
घृ॒त॑प्र᳚तीकम् । वः॒ । ऋ॒तस्य᳚ । धूः॒॑सद᳚म् । अ॒ग्निम् । मि॒त्रम् । न । स॒म्॑इ॒धा॒नः । ऋ॒ञ्ज॒ते॒ ।
इन्धा᳚नः । अ॒क्रः । वि॒दथे᳚षु । दीद्य᳚त् । शु॒क्र॑व᳚र्णाम् । उत् । ऊं॒ इति᳚ । नः॒ । यं॒स॒ते॒ । धिय᳚म् ॥
इन्धा᳚नः । अ॒क्रः । वि॒दथे᳚षु । दीद्य᳚त् । शु॒क्र॑व᳚र्णाम् । उत् । ऊं॒ इति᳚ । नः॒ । यं॒स॒ते॒ । धिय᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
घृतप्रतीकंघृतोपक्रमं प्रयाजादिष्वाज्यैर्हूयमानत्वात् यद्वा प्रतीकमङ्गंदीप्तज्वालमित्यर्थः किंभूतं वोयुष्मत्संबन्धिनःऋतस्ययज्ञस्यधूर्षदंधुरिनिर्वहणेसीदन्तं यज्ञनिर्वाहकमग्निंमित्रंनमित्रमिव समिधा- नः इध्मैर्दीप्यमानः यजमानःऋंजते प्रसाधयति ऋंजतिःप्रसाधनकर्मा किंच इन्धानः सम्यक् दीप्य- मानः अक्रःज्वालासमिदादिभिराक्रान्तः अन्यैरनुक्रान्तोवा क्रमेश्छान्दसोडः विदथेषु यज्ञेषुवेदयत्सु स्तोत्रेषु निमित्तभूतेषुदीद्यत् स्वयंदीप्यमानोऽस्मदीयांधियंप्रज्ञांयागादिविषयां शुभ्रवर्णां निर्मलां- ज्योतिष्टोमादिकर्मवाउदुयंसते उद्योतयत्येव यमेर्लेट्यडागमः सिप् उशब्दोवधारणे धीरितिकर्मनाम धीःशमीतितन्नामसुपाठात् ॥ ७ ॥