श्रवणम्

1.143.6
कु॒विन्नो᳚ अ॒ग्निरु॒चथ᳚स्य॒ वीरस॒द्वसु᳚ष्कु॒विद्वसु᳚भि॒ः काम᳚मा॒वर᳚त् ।
चो॒दः कु॒वित्तु᳚तु॒ज्यात्सा॒तये॒ धिय॒ः शुचि᳚प्रतीकं॒ तम॒या धि॒या गृ᳚णे ॥
▶ पदपाठः (Word-by-word)
कु॒वित् । नः॒ । अ॒ग्निः । उ॒चथ᳚स्य । वीः । अस᳚त् । वसुः᳚ । कु॒वित् । वसु᳚॑भिः । काम᳚म् । आ॒॑वर᳚त् ।
चो॒दः । कु॒वित् । तु॒तु॒ज्यात् । सा॒तये᳚ । धियः᳚ । शुचि᳚॑प्रतीकम् । तम् । अ॒या । धि॒या । गृ॒णे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयमग्निर्नोऽस्माकं उचथस्य उक्थस्य स्तोत्रस्य कुवित् बहुवारंवीः कामयिताअसत् भवतु अस्ते- र्लेट्यडागमः यद्वा उचथस्य एतन्नामकस्यमहर्षेः गोत्रप्रभवस्यनइतिसंबन्धः तथा वसुर्वासयितासर्वे- षांवसुस्थानीयोवा वसुभिर्वासयितृभिः धनैःकामंअत्यर्थंअभिमतंवाकुवित् अतिप्रभूतं आवरत् आवृ- णोतु अभिमतप्रदानेनकामंनिवर्तयत्वित्यर्थः वृणोतेर्लेट्यडागमः छान्दसोविकरणस्यलुक् अयमग्निः चोदः अस्माकंकर्मसुप्रेरकःसन् धियःकर्माणिसातयेलाभाय कुवित् बहुतुतुज्यात् त्वरयतु प्रेरयत्वित्य- र्थः तुजिःप्रेरणार्थः छान्दसःशपःश्लुः शुचिप्रतीकं शोभनावयवं शोभनज्वालंतमग्निं अयाधिया अन- यास्तुतिरूपयाप्रज्ञयागृणे उच्चारयामि स्तौमीत्यर्थः ॥ ६ ॥