यमे᳚रि॒रे भृग᳚वो वि॒श्ववे᳚दसं॒ नाभा᳚ पृथि॒व्या भुव᳚नस्य म॒ज्मना᳚ ।
अ॒ग्निं तं गी॒र्भिर्हि᳚नुहि॒ स्व आ दमे॒ य एको॒ वस्वो॒ वरु᳚णो॒ न राज᳚ति ॥
अ॒ग्निं तं गी॒र्भिर्हि᳚नुहि॒ स्व आ दमे॒ य एको॒ वस्वो॒ वरु᳚णो॒ न राज᳚ति ॥
पदपाठः (Word-by-word)
यम् । आ॒॑ई॒रि॒रे । भृग᳚वः । वि॒श्व॑वे᳚दसम् । नाभा᳚ । पृ॒थि॒व्याः । भुव᳚नस्य । म॒ज्मना᳚ ।
अ॒ग्निम् । तम् । गीः॒॑भिः । हि॒नु॒हि॒ । स्वे । आ । दमे᳚ । यः । एकः᳚ । वस्वः᳚ । वरु᳚णः । न । राज᳚ति ॥
अ॒ग्निम् । तम् । गीः॒॑भिः । हि॒नु॒हि॒ । स्वे । आ । दमे᳚ । यः । एकः᳚ । वस्वः᳚ । वरु᳚णः । न । राज᳚ति ॥
सायणभाष्यम् (Sayana Commentary)
विश्ववेदसं सर्वधनं वेदइतिधननाम वेदः वरिवइतितन्नामसुपाठात् तादृशंयमग्निं भृगवः भृगुगो- त्रोत्पन्नाः पापस्यभर्जकाः पृथिव्यावेद्याः एकदेशेकृत्स्नशब्दः यद्वा एतावतीवैपृथिवीत्यादिश्रुतेः वेद्याः पृथिवीत्वं तस्यानाभानाभौउत्तरवेद्यांभुवनस्यभूतजातस्य मन्मनाबलेन निमित्तेन आआभिमुख्येन ईरिरेईरितवन्तः स्थापितवन्तः तमग्निंस्वेस्वकीयेदमेगृहेउत्तरवेद्यांगीर्भिः स्तुतिभिः आहिनुहिप्राप्नुहि हिगतौवृद्धौच उतश्चप्रत्ययाच्छन्दसिवावचनमितिहेर्लुगभावः योऽग्निः एकः मुख्यःसन् एकएववा वस्वोवसुनः गवादिधनस्यराजति ईश्वरोभवति प्रदातुमितिशेषः राजतीत्यैश्वर्यकर्मा क्षियतिराजती- तितन्नामसुपाठात् तत्रदृष्टान्तः—वरुणोन वारकआदित्यइव सयथा सर्वस्यईष्टेतद्वत् ॥ ४ ॥