श्रवणम्

1.143.3
अ॒स्य त्वे॒षा अ॒जरा᳚ अ॒स्य भा॒नवः᳚ सुसं॒दृशः᳚ सु॒प्रती᳚कस्य सु॒द्युतः᳚ ।
भात्व᳚क्षसो॒ अत्य॒क्तुर्न सिन्ध᳚वो॒॑ग्ने रे᳚जन्ते॒ अस᳚सन्तो अ॒जरा᳚ः ॥
▶ पदपाठः (Word-by-word)
अ॒स्य । त्वे॒षाः । अ॒जराः᳚ । अ॒स्य । भा॒नवः᳚ । सु॒॑स॒न्दृशः᳚ । सु॒॑प्रती᳚कस्य । सु॒॑द्युतः᳚ ।
भा॑त्व᳚क्षसः । अति᳚ । अ॒क्तुः । न । सिन्ध᳚वः । अ॒ग्नेः । रे॒ज॒न्ते॒ । अस᳚सन्तः । अ॒जराः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्यस्तूयमानस्याग्नेः त्वेषाः दीप्तयः अजराः जरारहिताः अजीर्णाः अविरताइत्यर्थःनञोजरमरे- त्यादिनोत्तरपदाद्युदात्तत्वं तथा सुप्रतीकस्यशोभनमुखस्याग्नेर्भानवोरश्मयः दीप्तेरुक्तत्वादत्रविस्फु- लिङ्गाअवगन्तव्याः तेचसुसंदृशः सुष्ठुसम्यक् द्रष्टारः सर्वतोव्याप्ताइत्यर्थः सुद्युतः सुष्ठुसर्वतोद्योतमा- नाः तथाअस्याग्नेः भात्वक्षसः त्वक्षइतिबलनाम त्वक्षः शार्धइतिबलनामसुपाठात् भासमानबलाः अक्तुरितिरात्रिनामैतत् अक्तुः ऊर्म्येतितन्नामसूक्तत्वात् द्वितीयार्थेप्रथमा अक्तुंजगदंजकंनैशतमः अति- अतिक्रम्य सिंधवः स्यन्दमानाः सर्वत्रव्याप्नुवन्तः अससन्तः स्वव्यापारेष्वस्वपन्तः अविरताः अतए- वाजराः रश्मयः नरेजन्ते नकंपन्ते दाहपाकादिषु नचलन्तिनचाल्यन्ते वान्यैः यद्वा नशब्दोदृष्टान्तव- चनः भात्वक्षसः भाएवत्वक्षोबलंयस्यतादृशस्यादित्यस्यसिन्धवोनरश्मयइवतेयथास्यन्दनशीलाः व्याप्तिमन्तः अक्तुरिति अंजकंतमः अतिक्रम्य यथाअससन्तोरेजन्तेतद्वद्भात्वक्षसोस्याग्नेरुक्तलक्षणादी- प्तयोपिसर्वत्ररेजंते कंपंते व्याप्नुवन्तीत्यर्थः ॥ ३ ॥