श्रवणम्

1.143.5
न यो वरा᳚य म॒रुता᳚मिव स्व॒नः सेने᳚व सृ॒ष्टा दि॒व्या यथा॒शनि᳚ः ।
अ॒ग्निर्जम्भै᳚स्तिगि॒तैर᳚त्ति॒ भर्व᳚ति यो॒धो न शत्रू॒न्त्स वना॒ न्यृ᳚ञ्जते ॥
▶ पदपाठः (Word-by-word)
न । यः । वरा᳚य । म॒रुता᳚म्॑इव । स्व॒नः । सेना᳚॑इव । सृ॒ष्टा । दि॒व्या । यथा᳚ । अ॒शनिः᳚ ।
अ॒ग्निः । जम्भैः᳚ । ति॒गि॒तैः । अ॒त्ति॒ । भर्व᳚ति । यो॒धः । न । शत्रू᳚न् । सः । वना᳚ । नि । ऋ॒ञ्ज॒ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

योऽग्निर्वराय वरणायनिग्रहायशक्तोनभवति तत्रदृष्टान्तत्रयमुच्यते—मरुतांस्वनइव सयथाग्राह्य- स्तद्वत् तथासृष्टावैरिक्षयार्थंप्रबलेनाभिसृष्टासेनेवसायथान्यैरनिरोध्यातद्वत् तथा दिव्यादिविभवाअ- शनिर्यथा पतत्येवननिवार्यते तद्वत् ईदृक्सामर्थ्यमस्तीतिदर्शयति अयमग्निस्ति गितैर्निशितैः तीक्ष्णी- भूतैः अन्त्यविकारश्छान्दसः जंभैःदन्तैः दन्तस्थानीयाभिर्ज्वालाभिः अत्तिअस्मद्विरोधिनोभक्षयति तथाभर्वति हिनस्ति भर्वहिंसायां यास्कस्त्वाह—भर्वतिरत्तिकर्मेति । यद्यपि अत्तिभर्वत्योरदनमेवार्थः तथापितदवान्तरभेदोवगन्तव्यः तत्रदृष्टान्तः—योधोन संप्रहर्ताशूरइव सयथा शात्रून् भर्वतिभक्षयति तद्वत् किंच सोऽग्निः वना वनानि वृक्षादिसमूहान् न्यृंजते नितरां प्रसाधयति दहतीत्यर्थः ऋंजतिःप्र- साधनकर्मेतियास्कः ॥ ५ ॥