श्रवणम्

10.10.11
किं भ्राता᳚स॒द्यद᳚ना॒थं भवा᳚ति॒ किमु॒ स्वसा॒ यन्निरृ᳚तिर्नि॒गच्छा᳚त् ।
काम᳚मूता ब॒ह्वे॒३॒᳚तद्र᳚पामि त॒न्वा᳚ मे त॒न्वं१॒᳚ सं पि᳚पृग्धि ॥
▶ पदपाठः (Word-by-word)
किम् । भ्राता᳚ । अ॒स॒त् । यत् । अ॒ना॒थम् । भवा᳚ति । किम् । ऊं॒ इति᳚ । स्वसा᳚ । यत् । निः॑ऋ᳚तिः । नि॒॑गच्छा᳚त् ।
काम᳚॑मूता । ब॒हु । ए॒तत् । र॒पा॒मि॒ । त॒न्वा᳚ । मे॒ । त॒न्व᳚म् । सम् । पि॒पृ॒ग्धि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यमी यमेन प्रत्याख्याता पुनराह—यत् यस्मिन् भ्रातरि सति स्वस्रादिकं अनाथं ना- थरहितं भवाति भवति सभ्राता किमसत् किं भवति नभवतीत्यर्थः । किंच यत् यस्यां भगिन्यां सत्यां भ्रातरं निरृतिर्दुःखं निगच्छात् नियमेन गच्छति प्राप्नोति सा स्वसा किमु किंवा भद्रति भ्रातृभगिन्योश्च परस्परं प्रीतिर्येन केनचित् उपायेनावश्यं कार्येत्यभिप्रायः । साहं कामभूता कामेन मूर्छिता सती बहु नानाप्रकारं एतदीदृशमुक्तं वक्ष्यमाणं च रपामि प्रलपामि एतत् ज्ञात्वा मे मम तन्वा शरीरेण तन्वंच शरीरं संपिपृग्धि संपर्चय संभोगेन संश्लेषय मां सम्यक् भुंक्ष्वेत्यर्थः ॥ ११ ॥