न वा उ᳚ ते त॒न्वा᳚ त॒न्वं१॒᳚ सं प᳚पृच्यां पा॒पमा᳚हु॒र्यः स्वसा᳚रं नि॒गच्छा᳚त् ।
अ॒न्येन॒ मत्प्र॒मुदः᳚ कल्पयस्व॒ न ते॒ भ्राता᳚ सुभगे वष्ट्ये॒तत् ॥
अ॒न्येन॒ मत्प्र॒मुदः᳚ कल्पयस्व॒ न ते॒ भ्राता᳚ सुभगे वष्ट्ये॒तत् ॥
पदपाठः (Word-by-word)
न । वै । ऊं॒ इति᳚ । ते॒ । त॒न्वा᳚ । त॒न्व᳚म् । सम् । प॒पृ॒च्या॒म् । पा॒पम् । आ॒हुः॒ । यः । स्वसा᳚रम् । नि॒॑गच्छा᳚त् ।
अ॒न्येन᳚ । मत् । प्र॒॑मुदः᳚ । क॒ल्प॒य॒स्व॒ । न । ते॒ । भ्राता᳚ । सु॒॑भ॒गे॒ । व॒ष्टि॒ । ए॒तत् ॥
अ॒न्येन᳚ । मत् । प्र॒॑मुदः᳚ । क॒ल्प॒य॒स्व॒ । न । ते॒ । भ्राता᳚ । सु॒॑भ॒गे॒ । व॒ष्टि॒ । ए॒तत् ॥
सायणभाष्यम् (Sayana Commentary)
यमः यमीं प्रत्युक्तवान् हेयमि ते तव तन्वा शरीरेण तन्वमात्मीयं शरीरं नवै संपपृ- च्यां नैव संपर्चयामि नैवाहं त्वां संभोक्तुमिच्छामीत्यर्थः । योभ्राता स्वसारं भगिनीं निग च्छात् नियमेनोपगच्छति संभुंक्तइत्यर्थः तं पापं पापकारिणं आहुः शिष्टावदन्ति एतत् ज्ञात्वा हेसुभगे सुष्ठु भजनीये हे यमि त्वं मत् मत्तः अन्येन त्वद्योग्येन पुरुषेण सह प्रमु- दः संभोगलक्षणान् प्रहर्षान् कल्पयस्व समर्थय । ते तव भ्राता यमः एतदीदृशं त्वया सह मैथुनं कर्तुं नवष्टि नकामयते नेच्छति ॥ १२ ॥