श्रवणम्

10.10.14
अ॒न्यमू॒ षु त्वं य᳚म्य॒न्य उ॒ त्वां परि᳚ ष्वजाते॒ लिबु᳚जेव वृ॒क्षम् ।
तस्य᳚ वा॒ त्वं मन᳚ इ॒च्छा स वा॒ तवाधा᳚ कृणुष्व सं॒विदं॒ सुभ᳚द्राम् ॥
▶ पदपाठः (Word-by-word)
अ॒न्यम् । ऊं॒ इति᳚ । सु । त्वम् । य॒मि॒ । अ॒न्यः । ऊं॒ इति᳚ । त्वाम् । परि᳚ । स्व॒जा॒ते॒ । लिबु᳚जा॑इव । वृ॒क्षम् ।
तस्य᳚ । वा॒ । त्वम् । मनः᳚ । इ॒च्छ । सः । वा॒ । तव᳚ । अध᳚ । कृ॒णु॒ष्व॒ । स॒म्॑विद᳚म् । सु॑भ᳚द्राम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

यमः पुनरप्याह—हेयमि त्वं अन्यमु अन्यं पुरुषमेव सु सुष्ठु परिष्वज अन्यउ अन्योपि पुरुषः त्वां परिष्वजाते । तत्र दृष्टान्तः—लिबुजेव वृक्षं यथा वल्ली गाढं वृक्षं परिष्वजते तद्वत् । तथासति वाशब्दः समुच्चये । त्वं तस्यच पुरुषस्य मनः इच्छ कामय । तस्य त्वं वशवर्तिनी भवेत्यर्थः । सच पुरुषः तव मनइच्छतु । अध अथ परस्परवशवर्तित्वानन्तरं त्वं तेनसह सुभद्रां सुकल्याणीं संविदं परस्परसंभोगसुखसंवित्तिं कृणुष्व कुरुष्व ॥ १४ ॥

वृषेतिनवर्चमेकादशं सूक्तं आंगेर्हविर्धानस्यार्षं आग्नेयं सप्तम्याद्यास्तिस्रः त्रिष्टुभः शिष्टा- जगत्यः तथाचानुक्रान्तं—वृषानवांगिर्हविर्धानआग्नेयंतु त्रिष्टुबन्तमिति । गतः सूक्तविनियो- गः ।