स्व॒र्जितं॒ महि᳚ मन्दा॒नमन्ध᳚सो॒ हवा᳚महे॒ परि᳚ श॒क्रं सु॒ता{4} उप᳚ ।
इ॒मं नो᳚ य॒ज्ञमि॒ह बो॒ध्या ग᳚हि॒ स्पृधो॒ जय᳚न्तं म॒घवा᳚नमीमहे ॥
इ॒मं नो᳚ य॒ज्ञमि॒ह बो॒ध्या ग᳚हि॒ स्पृधो॒ जय᳚न्तं म॒घवा᳚नमीमहे ॥
पदपाठः (Word-by-word)
स्वः॒॑जित᳚म् । महि᳚ । म॒न्दा॒नम् । अन्ध᳚सः । हवा᳚महे । परि᳚ । श॒क्रम् । सु॒तान् । उप᳚ ।
इ॒मम् । नः॒ । य॒ज्ञम् । इ॒ह । बो॒धि॒ । आ । ग॒हि॒ । स्पृधः᳚ । जय᳚न्तम् । म॒घ॑वा᳚नम् । ई॒म॒हे॒ ॥
इ॒मम् । नः॒ । य॒ज्ञम् । इ॒ह । बो॒धि॒ । आ । ग॒हि॒ । स्पृधः᳚ । जय᳚न्तम् । म॒घ॑वा᳚नम् । ई॒म॒हे॒ ॥
सायणभाष्यम् (Sayana Commentary)
उक्त प्रकारेण स्वर्गस्य जेतारं महि महान्तमन्धसोऽन्नसोऽन्नस्य सोमस्य पानेन मन्दानं मोदमानं हृष्यन्तं शक्रं सर्वकार्येषु शक्तमिन्द्रं सुतानुपाभिषुतान्सोमान्प्रति परि हवामहे। परित आह्वयामहे। हे इन्द्र इत्थमाहूयमानस्त्वं नोऽस्माकमिमं यज्ञमिहास्मिन्यज्ञे बोधि। बुध्यस्व। बुद्ध्वा चा गहि। आगच्छ। स्पृधः स्पर्धमानाः शत्रुसेना जयन्तमभिभवन्तम् मघवानं धनवन्तं त्वामीमहे। अपेक्शितानि धनानि याचामहे॥२॥