श्रवणम्

10.167.3
सोम᳚स्य॒ राज्ञो॒ वरु᳚णस्य॒ धर्म᳚णि॒ बृह॒स्पते॒रनु᳚मत्या उ॒ शर्म᳚णि ।
तवा॒हम॒द्य म᳚घव॒न्नुप᳚स्तुतौ॒ धात॒र्विधा᳚तः क॒लशा{4}᳚ अभक्षयम् ॥
▶ पदपाठः (Word-by-word)
सोम᳚स्य । राज्ञः᳚ । वरु᳚णस्य । धर्म᳚णि । बृह॒स्पतेः᳚ । अनु᳚॑मत्याः । ऊं॒ इति᳚ । शर्म᳚णि ।
तव᳚ । अ॒हम् । अ॒द्य । म॒घ॒॑व॒न् । उप᳚॑स्तुतौ । धातः᳚ । विधा᳚त॒रिति॒ वि॑धा᳚तः । क॒लशा᳚न् । अ॒भ॒क्ष॒य॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

राज्ञो राजमानस्य सोमस्य वरुणस्य च सम्बन्धिन धर्मणि धारके यज्ञे वर्तमानस्तथा बृहस्पतेरनुमत्याः सम्बन्धिनि शर्मणि शरने यज्ञगृहे वर्तमानोऽहं मघवन्निन्द्र तवोपस्तुतौ स्तोत्रेऽद्येदानीं प्रवृत्तोऽस्मि। हे धातहे एतत्संज्ञक देव हे विधातरेतत्संज्ञक देव युवाभ्यामनुज्ञातः कलशान्कलशस्थान्हुतशिष्टान्सोमानभक्षयम् । भक्षितवानस्मि॥३॥