श्रवणम्

10.167.4
प्रसू᳚तो भ॒क्षम᳚करं च॒रावपि॒ स्तोमं᳚ चे॒मं प्र᳚थ॒मः सू॒रिरुन्मृ᳚जे ।
सु॒ते सा॒तेन॒ यद्याग᳚मं वां॒ प्रति᳚ विश्वामित्रजमदग्नी॒ दमे᳚ ॥
▶ पदपाठः (Word-by-word)
प्र॑सू᳚तः । भ॒क्षम् । अ॒क॒र॒म् । च॒रौ । अपि᳚ । स्तोम᳚म् । च॒ । इ॒मम् । प्र॒थ॒मः । सू॒रिः । उत् । मृ॒जे॒ ।
सु॒ते । सा॒तेन᳚ । यदि᳚ । आ । अग᳚मम् । वा॒म् । प्रति᳚ । वि॒श्वा॒मि॒त्र॒ज॒म॒द॒ग्नी॒ इति᳚ । दमे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र प्रसूतस्त्वया प्रेरितोऽहं चरौ चरणीये चरुणा वा युक्ते यज्ञे भक्षमपि भक्षणीयं चर्वादि हविश्चाकरम् । त्वदर्थमकार्षम्। प्रथमो मुख्यः सूरिः स्तोताहमिमं स्तोमं स्तोत्रं च त्वदर्थमुन्मृजे। उन्मार्ज्मि। संस्करोमि। उच्चारयामीत्यर्थः। इदानीमिन्द्रोऽन्तरात्मरूपः सन्। सूक्तस्य द्रष्टाराव्रुषी सम्बोध्यबूर्ते। हे विश्वामित्रजमदग्नी वां युवां प्रति दमे यज्ञगृहे सुतेऽभिषुते सोमे सति सातेन सम्भक्तव्येन धनेन सार्धं यदि यदा यस्मिन्कालेऽहमागमं आगच्छामि तदा युवां स्तोत्रं कुरुतमित्यर्थः॥४॥