श्रवणम्

10.41.1
स॒मा॒नमु॒ त्यं पु᳚रुहू॒तमु॒क्थ्यं१॒᳚ रथं᳚ त्रिच॒क्रं सव᳚ना॒ गनि᳚ग्मतम् ।
परि᳚ज्मानं विद॒थ्यं᳚ सुवृ॒क्तिभि᳚र्व॒यं व्यु᳚ष्टा उ॒षसो᳚ हवामहे ॥
▶ पदपाठः (Word-by-word)
स॒मा॒नम् । ऊं॒ इति᳚ । त्यम् । पु॒रु॒॑हू॒तम् । उ॒क्थ्य᳚म् । रथ᳚म् । त्रि॒॑च॒क्रम् । सव᳚ना । गनि᳚ग्मतम् ।
परि᳚॑ज्मानम् । वि॒द॒थ्य᳚म् । सु॒वृ॒क्ति॑भिः᳚ । व॒यम् । वि॑उ᳚ष्टौ । उ॒षसः᳚ । ह॒वा॒म॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विनौ युवयोः समानमु साधारणमेव त्यं तं पुरुहूतं बहूभिराहुतं उक्थ्यं प्रशस्यं त्रिचक्रं सवना सवनानि यज्ञान् गनिग्मतं प्रतिगच्छंतं परिज्मानं परितोगंतारं विदथ्यं यज्ञहितं रथं उषसोव्युष्टौ सुवृक्तिभिः सुष्ठु दोषवर्जिताभिः स्तुतिभिः वयं हवामहे आह्व- यामः ॥ १ ॥