अ॒ध्व॒र्युं वा॒ मधु᳚पाणिं सु॒हस्त्य᳚म॒ग्निधं᳚ वा धृ॒तद᳚क्षं॒ दमू᳚नसम् ।
विप्र᳚स्य वा॒ यत्सव᳚नानि॒ गच्छ॒थो॑त॒ आ या᳚तं मधु॒पेय᳚मश्विना ॥
विप्र᳚स्य वा॒ यत्सव᳚नानि॒ गच्छ॒थो॑त॒ आ या᳚तं मधु॒पेय᳚मश्विना ॥
पदपाठः (Word-by-word)
अ॒ध्व॒र्युम् । वा॒ । मधु᳚॑पाणिम् । सु॒॑हस्त्य᳚म् । अ॒ग्निध᳚म् । वा॒ । धृ॒त॑द᳚क्षम् । दमू᳚नसम् ।
विप्र᳚स्य । वा॒ । यत् । सव᳚नानि । गच्छ᳚थः । अतः᳚ । आ । या॒त॒म् । म॒धु॒॑पेय᳚म् । अ॒श्वि॒ना॒ ॥
विप्र᳚स्य । वा॒ । यत् । सव᳚नानि । गच्छ᳚थः । अतः᳚ । आ । या॒त॒म् । म॒धु॒॑पेय᳚म् । अ॒श्वि॒ना॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे अश्विनौ युवां मधुपाणिं सोमपाणिमध्वर्युं वा सुहस्त्यं ुहस्त्यनामानमृषिं मां धृत दक्षं धृतबलं दमूनसं दानमनसं अग्निधं वा ऋत्विग्विशेषमायातम् । तदेवदर्शयति—यत् य- द्यपि विप्रस्यान्यस्य मेधाविनः सवनानि यज्ञान् गच्छथः तथाप्यतः तेभ्योयज्ञेभ्योमधुपेय- मस्माकं सोमात्मकं पेयमायातमन्वागच्छतं ॥ ३ ॥
अस्तेवेत्येकादशर्चं त्रयोदशं सूक्तं आंगिरस्य कृष्णाख्यस्यार्षं त्रैष्टुभमैंद्रम् । अनुक्रांतंच—अस्तेवैकादश कृष्णइति । आभिप्लविकेषूक्थेषु स्तोमवृद्धौइदं सूक्तं ब्राह्मणाच्छंसिनआवापा- र्थं सूत्रितंच—यज्ञेदिवइतिसूक्ते अस्तेवसुप्रतरमिति ।