प्रा॒त॒र्युजं᳚ नास॒त्याधि᳚ तिष्ठथः प्रात॒र्यावा᳚णं मधु॒वाह᳚नं॒ रथ᳚म् ।
विशो॒ येन॒ गच्छ᳚थो॒ यज्व᳚रीर्नरा की॒रेश्चि᳚द्य॒ज्ञं होतृ᳚मन्तमश्विना ॥
विशो॒ येन॒ गच्छ᳚थो॒ यज्व᳚रीर्नरा की॒रेश्चि᳚द्य॒ज्ञं होतृ᳚मन्तमश्विना ॥
पदपाठः (Word-by-word)
प्रा॒तः॒॑युज᳚म् । ना॒स॒त्या॒ । अधि᳚ । ति॒ष्ठ॒थः॒ । प्रा॒तः॒॑यावा᳚नम् । म॒धु॒॑वाह᳚नम् । रथ᳚म् ।
विशः᳚ । येन᳚ । गच्छ᳚थः । यज्व᳚रीः । न॒रा॒ । की॒रेः । चि॒त् । य॒ज्ञम् । होतृ᳚॑मन्तम् । अ॒श्वि॒ना॒ ॥
विशः᳚ । येन᳚ । गच्छ᳚थः । यज्व᳚रीः । न॒रा॒ । की॒रेः । चि॒त् । य॒ज्ञम् । होतृ᳚॑मन्तम् । अ॒श्वि॒ना॒ ॥
सायणभाष्यम् (Sayana Commentary)
हेनासत्या नासत्यभूतौ सत्यस्य प्रणेतारौ वा नरा नेतारावश्विनौ युवां प्रातर्युजं प्रातः- काले अश्वैर्युज्यमानं प्रातर्यावाणं प्रातर्गंतारं मधुवाहनं मधुनोमृतस्य वाहकं तंरथं अधि- तिष्ठथः आरोहथइत्यर्थः । यज्वरीर्यजनशीलाः विशः प्रजाः येन रथेन गच्छथः येन च कीरेश्चित् स्तोतुरपि होतृमंतं ऋत्विगूयुक्तं यज्ञं गच्छथः ॥ २ ॥