अ॒ग्निं हि᳚न्वन्तु नो॒ धिय॒ः सप्ति᳚मा॒शुमि᳚वा॒जिषु᳚ ।
तेन᳚ जेष्म॒ धनं᳚धनम् ॥
तेन᳚ जेष्म॒ धनं᳚धनम् ॥
पदपाठः (Word-by-word)
अ॒ग्निम् । हि॒न्व॒न्तु॒ । नः॒ । धियः᳚ । सप्ति᳚म् । आ॒शुम्॑इ᳚व । आ॒जिषु᳚ ।
तेन᳚ । जे॒ष्म॒ । धन᳚म्॑धनम् ॥
तेन᳚ । जे॒ष्म॒ । धन᳚म्॑धनम् ॥
सायणभाष्यम् (Sayana Commentary)
अग्निं हिन्वन्तु न इति पञ्चर्चम् पञ्चमं सूक्तमग्निपुत्रस्य केतुनाम्न आर्षं गायत्रमाग्नेयम्। तथा चानुक्रान्तम्। अग्निं केतुराग्नेय आग्नेयं गायत्रमिति । प्रातरनुवाकाश्विनशस्त्रयोर्गायत्रे छन्दसीदं शस्यम् । सूत्रितं च। अग्निं हिन्वन्तु नः प्राग्नये वाचमिति सूक्ते। आ. ४-२३। इति॥
नोऽस्माकं धियः कर्माणि स्तुतयो वाग्निं हिन्वन्तु। प्रेरयन्तु। यागार्थमुद्योजयन्तु वर्धयन्तु वा। हि गतौ वृद्धौ च। तत्र दृष्टान्तः। आजिषु सङ्ग्रामेष्वाशुमिव यथाशुं शीघ्रगामिनं सप्तिं सर्पणशीलमश्वं योद्धारः प्रेरयन्ति तद्वत्। तेनाग्नि ना धनं धनं सर्वं धनं जेष्म। वयं जयेम॥१॥