श्रवणम्

10.156.5
अग्ने᳚ के॒तुर्वि॒शाम᳚सि॒ प्रेष्ठ॒ः श्रेष्ठ᳚ उपस्थ॒सत् ।
बोधा᳚ स्तो॒त्रे वयो॒ दध᳚त् ॥
▶ पदपाठः (Word-by-word)
अग्ने᳚ । के॒तुः । वि॒शाम् । अ॒सि॒ । प्रेष्ठः᳚ । श्रेष्ठः᳚ । उ॒प॒स्थ॒॑सत् ।
बोध᳚ । स्तो॒त्रे । वयः᳚ । दध᳚त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने विशां प्रजानां यजमानां केतुः केतयितासि। ज्ञापयिता भवसि। अत एव प्रेष्ठः प्रियतमः श्रेष्ठः प्रशस्यतमश्च भवसि। स त्वमुपस्थसदुपस्थाने यज्ञगृहे निषीदन्बोध। अस्मदीयम् स्तोत्रमवगच्छा। किं कुर्वन्। स्तोत्रे स्तुवते जनाय वयोऽन्नं दधिद्विदधत् कुर्वन् प्रयच्छन्॥५॥