यया॒ गा आ॒करा᳚महे॒ सेन᳚याग्ने॒ तवो॒त्या ।
तां नो᳚ हिन्व म॒घत्त᳚ये ॥
तां नो᳚ हिन्व म॒घत्त᳚ये ॥
पदपाठः (Word-by-word)
यया᳚ । गाः । आ॒॑करा᳚महे । सेन᳚या । अ॒ग्ने॒ । तव᳚ । ऊ॒त्या ।
ताम् । नः॒ । हि॒न्व॒ । म॒घत्त᳚ये ॥
ताम् । नः॒ । हि॒न्व॒ । म॒घत्त᳚ये ॥
सायणभाष्यम् (Sayana Commentary)
हे अग्ने सेनयेनेन सह वर्तमानया सेनरूपया वा यया तवोत्या रक्षया गा आकरामहे आभिमुख्येन कुर्महे। लाभामह इत्यर्थः। तामूतिं नोऽस्मान्हिन्व। गमय। किमर्थम् । मघत्तये। धनस्य दानार्थम् । अस्माकं धनलाभायेत्यर्थः॥२॥