श्रवणम्

10.156.4
अग्ने॒ नक्ष᳚त्रम॒जर॒मा सूर्यं᳚ रोहयो दि॒वि ।
दध॒ज्ज्योति॒र्जने᳚भ्यः ॥
▶ पदपाठः (Word-by-word)
अग्ने᳚ । नक्ष᳚त्रम् । अ॒जर᳚म् । आ । सूर्य᳚म् । रो॒ह॒यः॒ । दि॒वि ।
दध᳚त् । ज्योतिः᳚ । जने᳚भ्यः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने नक्षत्रन्। नक्षति सततं गच्छतीति नक्षत्रः। नक्षि गतौ। अमिनक्षीत्यादिनात्रन्प्रत्ययः। सततं गन्तारमजरं जरारहितं सूर्यं सर्वस्य प्रेरकमादित्यं दिव्यन्तरिक्ष आ रोहयः। उपर्यवस्थितवानसि। यद्वा। नक्षत्रं कृत्तिकादिकम् सूर्यं च दिव्यारोहयः। किं कुर्वन्। जनेभ्यः सर्वेभ्यः प्राणिभ्यो व्यवहार्थं ज्योतिः प्रकाशं दधद्विदधत् कुर्वन्। यथा सर्वेषां प्रकाशो भवति तथोन्नते देशे सूर्यमगमय इत्यर्थः॥४॥