श्रवणम्

10.56.2
त॒नूष्टे᳚ वाजिन्त॒न्वं१॒᳚ नय᳚न्ती वा॒मम॒स्मभ्यं॒ धातु॒ शर्म॒ तुभ्य᳚म् ।
अह्रु᳚तो म॒हो ध॒रुणा᳚य दे॒वान्दि॒वी᳚व॒ ज्योति॒ः स्वमा मि᳚मीयाः ॥
▶ पदपाठः (Word-by-word)
त॒नूः । ते॒ । वा॒जि॒न् । त॒न्व᳚म् । नय᳚न्ती । वा॒मम् । अ॒स्मभ्य᳚म् । धातु᳚ । शर्म᳚ । तुभ्य᳚म् ।
अह्रु᳚तः । म॒हः । ध॒रुणा᳚य । दे॒वान् । दि॒वि॑इ᳚व । ज्योतिः᳚ । स्वम् । आ । मि॒मी॒याः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वाजिन्नेतन्नामक पुत्र ते तव तन्वं शरीरंनयन्ती स्वशरीरं प्रापयन्ती तनूरियं पृथिवी। उभयोरपि पार्थिवत्त्वात्तव शरीरस्य पृथिवी प्राप्तौ सत्यां तस्यास्तव शरीरनयनं युक्तम् । तादृशी पृथिवी वामं वननीयं धनमस्मभ्यं धातु। दधातु। शर्म च सुखं तुभ्यं धातु। दधातु। स त्वमह्रुतोऽनवपतितः सन् महो महतो देवांस्तव कारणभुतान् दिवीव ज्योतिर्द्युलोके वर्तमानं सूर्यं च। इवशब्दश्चार्थे नोपातानामनेकार्थत्वात्। तं च स्वं तव स्वभूतमामिमीयाः। आविश॥२॥