श्रवणम्

10.56.4
म॒हि॒म्न ए᳚षां पि॒तर᳚श्च॒नेशि᳚रे दे॒वा दे॒वेष्व᳚दधु॒रपि॒ क्रतु᳚म् ।
सम᳚विव्यचुरु॒त यान्यत्वि᳚षु॒रैषां᳚ त॒नूषु॒ नि वि᳚विशु॒ः पुनः᳚ ॥
▶ पदपाठः (Word-by-word)
म॒हि॒म्नः । ए॒षा॒म् । पि॒तरः᳚ । च॒न । ई॒शि॒रे॒ । दे॒वाः । दे॒वेषु᳚ । अ॒द॒धुः॒ । अपि᳚ । क्रतु᳚म् ।
सम् । अ॒वि॒व्य॒चुः॒ । उ॒त । यानि᳚ । अत्वि᳚षुः । आ । ए॒षा॒म् । त॒नूषु᳚ । नि । वि॒वि॒शुः॒ । पुन॒रिति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पितरश्चनास्मत्पितरोऽप्यङ्गिरस एषां देवानां महिम्नो महत्त्वस्येशिरे। ईश्वरा अभवन्। ते देवा अपि देवत्वं प्राप्ता अङ्गिरसो देवेष्विन्द्रादिषु क्रतुं सङ्कल्पमदधुः। धृतवन्तः। उतापि च यानि तेजांस्यत्विषुर्दीप्यन्ते तानि समविव्यचुः। सङ्गता आसन्। एषां देवानां तनूषु शरीरेषु नि विविशुः। निविशन्ति पितरोऽङ्गिरसः। अतस्त्वमपि तथा कुर्वित्यर्थः॥५॥