श्रवणम्

10.56.7 समानपद
ना॒वा न क्षोदः᳚ प्र॒दिशः᳚ पृथि॒व्याः स्व॒स्तिभि॒रति᳚ दु॒र्गाणि॒ विश्वा᳚ ।
स्वां प्र॒जां बृ॒हदु᳚क्थो महि॒त्वाव᳚रेष्वदधा॒दा परे᳚षु ॥
▶ पदपाठः (Word-by-word)
ना॒वा । न । क्षोदः᳚ । प्र॒॑दिशः᳚ । पृ॒थि॒व्याः । स्व॒स्ति॑भिः᳚ । अति᳚ । दुः॒॑गानि᳚ । विश्वा᳚ ।
स्वाम् । प्र॒॑जाम् । बृ॒हत्॑उ᳚क्थः । म॒हि॒॑त्वा । आ । अव᳚रेषु । अ॒द॒धा॒त् । आ । परे᳚षु ॥
▶ सायणभाष्यम् (Sayana Commentary)

नावा नोदकोत्तरणसाधनेनेव क्षोद उदकं यथा मनुष्या नवोदकमतितरन्ति यथा वा स्वस्तिभिः क्षेमैर्विश्वा सर्वाणि दुर्गाणि दुःखेन गन्तव्यान्यतितरन्ति तद्वद्बृहदुक्थः स्वां प्रजां वाजिनं मृतं पुत्रं महित्वा स्वमहत्त्वेनावरेष्वग्न्यादिष्वादधात्। कृतवान्। तदा परेषु दिव्येषु सूर्यादिष्वादधात्। एवमृषिर्ब्रूतेस्वयमेव वा स्वात्मानं परोक्षेणाह॥८॥