श्रवणम्

10.56.3
वा॒ज्य᳚सि॒ वाजि᳚नेना सुवे॒नीः सु᳚वि॒तः स्तोमं᳚ सुवि॒तो दिवं᳚ गाः ।
सु॒वि॒तो धर्म᳚ प्रथ॒मानु᳚ स॒त्या सु᳚वि॒तो दे॒वान्त्सु᳚वि॒तो॑नु॒ पत्म᳚ ॥
▶ पदपाठः (Word-by-word)
वा॒जी । अ॒सि॒ । वाजि᳚नेन । सु॒॑वे॒नीः । सु॒वि॒तः । स्तोम᳚म् । सु॒वि॒तः । दिव᳚म् । गाः॒ ।
सु॒वि॒तः । धर्म᳚ । प्र॒थ॒मा । अनु᳚ । स॒त्या । सु॒वि॒तः । दे॒वान् । सु॒वि॒तः । अनु᳚ । पत्म᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे पुत्र त्वं पाजिनेनान्नरसेन बलेन वा वाज्यसि। तद्वान्भवसि। कीदृशस्त्वम् । सुवेनीः। सुष्ठु कान्तः। वि गत्यादिषु। तादृशस्त्वं सुवितः सुष्ठु प्रेरितस्त्वं स्तोमं पूर्वं त्वया कृतं स्तोत्रं तदभिमानिदेवमनु गाः। अन्वगाः। अनुगच्छ। तथा सुवितो दिवं गाः। तथा सुवितो धर्मत्वया सम्पादितानि धर्माण्यनुगच्छ। कीदृशानि। प्रथामा मुख्यानि सत्या सत्यफलानि। तथा सुवितो देवानिन्द्रादीन्। तथा सुवितः पत्म पतज्ज्योतिरादित्याख्यमनु गाः॥४॥