श्रवणम्

10.115.1
चि॒त्र इच्छिशो॒स्तरु᳚णस्य व॒क्षथो॒ न यो मा॒तरा᳚व॒प्येति॒ धात᳚वे ।
अ॒नू॒धा यदि॒ जीज᳚न॒दधा᳚ च॒ नु व॒वक्ष᳚ स॒द्यो महि᳚ दू॒त्यं१॒᳚ चर᳚न् ॥
▶ पदपाठः (Word-by-word)
चि॒त्रः । इत् । शिशोः᳚ । तरु᳚णस्य । व॒क्षथः᳚ । न । यः । मा॒तरौ᳚ । अ॒पि॒॑एति᳚ । धात᳚वे ।
अ॒नू॒धाः । यदि᳚ । जीज᳚नत् । अध᳚ । च॒ । नु । व॒वक्ष᳚ । स॒द्यः । महि᳚ । दू॒त्य᳚म् । चर᳚न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

चित्र इति नवर्चं तृतीयं सूक्तमाग्नेयम् । उपस्तुतो नाम वृष्टिहव्यपुत्र ऋशिः। अष्तमी त्रिष्तुप्। नवमी शक्वरी। आदितः सप्त जगत्यः। तथा चानुक्रान्तम्। चित्र इन्नव वार्ष्टिहव्य उपस्तुत आग्नेयं जागतं त्रिष्टुप्शक्वर्यन्तमिति। प्रातरनुवाकाश्विनशस्त्रयोर्जागते छन्दसीदम् सूक्तम्। सूत्रितं च। चित्र इच्छिशोर्वसुं न चित्रमहसमिति जागतम्। आ. ४-१३। इति॥

शिशोः शिशुभूतस्य अत एव तरुणस्य नूतनस्याग्नेर्वक्षथः। वक्षेरौणादिकोऽथ प्रत्ययः। हविर्वहनं चित्र इदाश्चर्यभूतमेव यो जातोऽग्निर्मातरौ सर्वस्य निर्मात्र्यौ मातृपितृभूते द्यावापृथिव्यावरन्यौ वा धातवे नाप्येति। धेट् पाने। तुमर्थे तवेन्प्रत्ययः। पानायापि न गच्छति। इण् गतौ। लट्युपसर्गेन समासः। तिङि चोदात्तवतिति गतेर्निघातः। अनूधाः। नञ्बहुव्रीहिः। समासान्तस्यानङः स्त्रियामिष्टत्वादत्रानङभावः। पा. ५-४-१३१। प्रत्येकविवक्षयैकवचनम्। ऊधोरहितोऽयं लोलोऽसौ लोकश्चैनमग्निं यदि जीजनत् अजीजनत् अजनयत्। तर्हि स्तनपानाय न गच्छतीति युक्तम्। तथा न भवति। किन्तु द्यावापृथिव्यौ सर्वेषां कामदुघे खलु। तथापि न याति। तस्मादस्य हविर्वहनं चित्रम् । अध चोत्पत्यनन्तरमेव न्वद्यास्मिन्दिने सद्यस्तदानीमेव शीघ्रं महि महद्धूत्यम्। दूतस्य भागकर्मणी इति कर्मणि यत्प्रत्ययः। दूतकर्म चरन् ववक्ष। देवान्प्रति हवींषि वहति॥१॥