वा॒जिन्त᳚माय॒ सह्य᳚से सुपित्र्य तृ॒षु च्यवा᳚नो॒ अनु᳚ जा॒तवे᳚दसे ।
अ॒नु॒द्रे चि॒द्यो धृ᳚ष॒ता वरं᳚ स॒ते म॒हिन्त᳚माय॒ धन्व॒नेद᳚विष्य॒ते ॥
अ॒नु॒द्रे चि॒द्यो धृ᳚ष॒ता वरं᳚ स॒ते म॒हिन्त᳚माय॒ धन्व॒नेद᳚विष्य॒ते ॥
पदपाठः (Word-by-word)
वा॒जिन्॑त᳚माय । सह्य᳚से । सु॒॑पि॒त्र्य॒ । तृ॒षु । च्यवा᳚नः । अनु᳚ । जा॒त॑वे᳚दसे ।
अ॒नु॒द्रे । चि॒त् । यः । धृ॒ष॒ता । वर᳚म् । स॒ते । म॒हिन्॑त᳚माय । धन्व᳚ना । इत् । अ॒वि॒ष्य॒ते ॥
अ॒नु॒द्रे । चि॒त् । यः । धृ॒ष॒ता । वर᳚म् । स॒ते । म॒हिन्॑त᳚माय । धन्व᳚ना । इत् । अ॒वि॒ष्य॒ते ॥
सायणभाष्यम् (Sayana Commentary)
हे सुपित्र्य। पितुरागतः पित्र्यः। पितुर्यच्च। पा. ४-३-७९। इति यत्प्रत्ययः। शोभनपित्र्य हे अग्ने वाजिन्तमायातिशयेनान्नवतेऽत्यन्तम् बलवते वा। नाद्घस्येति नुडागमः। सह्यसे सहीयसे शत्रूणामतिशयेनाभिभवित्रे जातवेदसे जातप्रज्~काय तुभ्यं त्वां स्तोतुं तृषु क्षिप्रमनु च्यवानः स्तुतिभिरनुगत उद्युक्तोऽस्मि। क्रियार्थोपपदस्य च कर्मणीति जातवेदः शब्दस्य चतुर्थी। सह्यसे। सहस्विञ्शब्दादीयसुनिविन्मतोर्लुगितीयसुन ईकारलोपश्छान्दसः। अनुद्रे चिदुदकवर्जिते स्थाने। आपदीत्यर्थः। शत्रुभिः सञ्जातायामापदि धृषता शत्रुधर्षन समर्थेन धन्वनेदात्मीयेन धनदैवाविष्यते पालकाय सते भूष्नवे। शतरनुम इति विभक्तेरुदात्तत्वम्। मंहितमाय पूज्यतमाय दातृतमाय वा ईदृशायाग्नये योऽहम् वरं वरणीयं हविः प्रयच्छामि सोऽहम् स्तुतिमपि तस्मै करोमीत्यर्थः॥६॥