श्रवणम्

10.115.4
वि यस्य᳚ ते ज्रयसा॒नस्या᳚जर॒ धक्षो॒र्न वाता॒ः परि॒ सन्त्यच्यु᳚ताः ।
आ र॒ण्वासो॒ युयु᳚धयो॒ न स᳚त्व॒नं त्रि॒तं न᳚शन्त॒ प्र शि॒षन्त᳚ इ॒ष्टये᳚ ॥
▶ पदपाठः (Word-by-word)
वि । यस्य᳚ । ते॒ । ज्र॒य॒सा॒नस्य᳚ । अ॒ज॒र॒ । धक्षोः᳚ । न । वाताः᳚ । परि᳚ । सन्ति᳚ । अच्यु᳚ताः ।
आ । र॒ण्वासः᳚ । युयु᳚धयः । न । स॒त्व॒नम् । त्रि॒तम् । न॒श॒न्त॒ । प्र । शि॒षन्तः᳚ । इ॒ष्टये᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अजर जरारहिताग्ने ज्रयसानस्य। ज्रयतिर्गत्यर्थः। बाहुलकादस्मादप्यसानच् प्रत्ययः। गमनशीलस्य धक्षो। दहेः सन्। द्विर्वचनप्रकरने छन्दसि वेति वक्तव्यम्। का. ६-१-८-१। इति द्विर्वचनाभावः। तदन्तादुप्रत्ययः। अरण्यदहनेच्छोर्यस्य ते तव स्वभुता अच्युताः शत्रुभिरच्यवनीयाः प्रभावा वाता न वायव इव वि परि सन्ति सर्वतो विशेषेन वर्तन्ते। सन्ति। अस्तेर्लट्। यद्योगादनिघातः। युयुधयो न। युधेः किन्प्रत्ययः। योद्धार इव रण्वासः शीघ्रं गन्तारः शब्दायमाना वर्त्विज इष्टये यागाय प्र शिषन्तः प्रकर्षेन सिषन्तः सिषासन्तः सम्भक्तुमिच्छन्तः सत्वनं बलवन्तं त्रितं त्रितं त्रिष्वाहवनीयादिषु स्थानेशु ततम् विस्तृतं त्वामा नशन्त। स्तुतिभिर्हविर्भिश्च व्याप्नुवन्ति। आङ्पूर्वो नशिर्व्यप्तिकर्मा। आक्षाण आनडिति व्याप्तिकर्मसु पाठात्॥४॥