श्रवणम्

10.115.9
इति᳚ त्वाग्ने वृष्टि॒हव्य᳚स्य पु॒त्रा उ᳚पस्तु॒तास॒ ऋष᳚यो॑वोचन् ।
ता{4}श्च᳚ पा॒हि गृ᳚ण॒तश्च᳚ सू॒रीन्वष॒ड्वष॒ळित्यू॒र्ध्वासो᳚ अनक्ष॒न्नमो॒ नम॒ इत्यू॒र्ध्वासो᳚ अनक्षन् ॥
▶ पदपाठः (Word-by-word)
इति᳚ । त्वा॒ । अ॒ग्ने॒ । वृ॒ष्टि॒॑हव्य᳚स्य । पु॒त्राः । उ॒प॒॑स्तु॒तासः᳚ । ऋष᳚यः । अ॒वो॒च॒न् ।
तान् । च॒ । पा॒हि । गृ॒ण॒तः । च॒ । सू॒रीन् । वष᳚ट् । वष᳚ट् । इति᳚ । ऊ॒र्ध्वासः᳚ । अ॒न॒क्ष॒न् । नमः᳚ । नमः᳚ । इति᳚ । ऊ॒र्ध्वासः᳚ । अ॒न॒क्ष॒न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने त्वा त्वामित्येवमुक्तप्रकारेन व्रुष्टिहव्यस्यैतन्नामकस्यर्षेः पुत्रा उप्ततुतास उपस्तुता एतदभिधाना ऋषयः सूक्तद्रष्टारोऽवोचन्। अभ्यष्टुअवन्। तानृषींश्च त्वं पाहि । रक्ष। चवायोगे प्रथमेति न निघातः। तथा गृणतह् स्तोतृण् सूरिन्विदुषश्च पाहि। वषड्वषडिति मन्त्रेणोर्ध्वासो हविष्प्रदानार्थमूर्ध्वमुख हस्ताः सन्तोऽनक्षन्। व्याप्नुवन्। नक्षतिर्व्याप्तिकर्मा। नमो नम इत्येवमूर्थ्वासः स्तोतुमुद्युक्ता अनक्षतन्। य उक्तगुणास्तानुभयविधान्यष्टॄन् स्तोत्रॄन्पालय॥९॥