श्रवणम्

10.115.7
ए॒वाग्निर्मर्तै᳚ः स॒ह सू॒रिभि॒र्वसु᳚ः ष्टवे॒ सह᳚सः सू॒नरो॒ नृभि᳚ः ।
मि॒त्रासो॒ न ये सुधि᳚ता ऋता॒यवो॒ द्यावो॒ न द्यु॒म्नैर॒भि सन्ति॒ मानु᳚षान् ॥
▶ पदपाठः (Word-by-word)
ए॒व । अ॒ग्निः । मर्तैः᳚ । स॒ह । सू॒रि॑भिः᳚ । वसुः᳚ । स्त॒वे॒ । सह᳚सः । सू॒नरः᳚ । नृ॑भिः᳚ ।
मि॒त्रासः᳚ । न । ये । सु॑धि᳚ताः । ऋ॒त॒॑यवः᳚ । द्यावः᳚ । न । द्यु॒म्नैः । अ॒भि । सन्ति᳚ । मानु᳚षान् ॥
▶ सायणभाष्यम् (Sayana Commentary)

सहसो बलस्य सूनरः सुष्ठु प्रेरकः। यद्वा। सुनुरित्यस्य वर्णव्यत्ययः। सूनरः सूणुः। बलेन मध्यमानत्वात्तस्य पुत्रः। अग्निर्नृभिः कर्मनेतृभिर्मर्तैर्मनुष्यैः सह सूरिभिर्विद्वद्भिरस्माभिर्वसु धनमभिलक्ष्यैवैवं स्तवे। स्तूयते। वसु ष्टव इत्यत्र संहितायां पूर्वपदादिति षत्वम्। मित्रासो न सुहृद इव सुधिताः सुहितास्तृप्ताः। दधातेर्निष्ठायाम् सुधितवसुधितेति नोपाइतिअः। सुधितार्थास्तृप्त्यर्था इति काशिकायामुक्तम्। ऋतायवो यज्ञम् कामयमानाः। न च्छन्दस्य पुत्रस्येति दीर्घेत्वयोः प्रतिषेधः। ईदृशा ये सूरयो द्यावो न द्योतमाना इव द्युम्नैः। द्युम्नं द्योततेर्यशो वान्नं वा। नि. ५-५। इति यास्कः। अग्निप्रदत्तैर्बलैरात्मीयैर्यशोभिर्वा मानुषाञ्शानानभि सन्ति अभिभवन्ति। यद्वृत्तयोगादनिघातः॥७॥