श्रवणम्

10.150.1
समि᳚द्धश्चि॒त्समि᳚ध्यसे दे॒वेभ्यो᳚ हव्यवाहन ।
आ॒दि॒त्यै रु॒द्रैर्वसु᳚भिर्न॒ आ ग᳚हि मृळी॒काय᳚ न॒ आ ग᳚हि ॥
▶ पदपाठः (Word-by-word)
सम्॑इ᳚द्धः । चि॒त् । सम् । इ॒ध्य॒से॒ । दे॒वेभ्यः᳚ । ह॒व्य॒॑वा॒ह॒न॒ ।
आ॒दि॒त्यैः । रु॒द्रैः । वसु᳚॑भिः । नः॒ । आ । ग॒हि॒ । मृ॒ळी॒काय᳚ । नः॒ । आ । ग॒हि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

समिद्ध इति पञ्चर्चं द्वाविंशं सूक्तं वसिष्ठपुत्रस्य मृळीकस्यार्षस्यार्षमाग्नेयम्। चतुर्थीपञ्चम्यावुपरिष्टाज्ज्योतिषी त्रिद्वादशाष्टकवत्यौ। अक्शरव्यूहेन चतुर्थी जगती वा। शिष्टा बृहत्यः। तथा चानुक्रान्तम्। समिद्धो मृळीको वासिष्ठ आग्नेयं बार्हतमन्त्ये उपरिष्टाज्ज्योतिषी जगत्युपान्त्या वेति। गतो विनियोगः॥

हे हव्यवाहन हव्यानां हविषां वोढरग्ने समिद्धश्चित् सन्दीप्तोऽपि देवेभ्यो यागार्थं समिध्यसे। पुनरप्यृत्विग्भिः समिद्भिः सन्दीप्यसे। स त्वमादित्यैरादित्यादिभिस्त्रिभिर्र्गनैः सार्धं नोऽस्माना गहि। आगच्छ। तथा नोऽस्माकं मृळीकाय सुखाय तदर्थमाप्या गहि। यद्वा। मृळीकायैतत्संज्ञाय नो मह्यमृशये श्रेयांसि कर्तुमागच्छ॥१॥